________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
अशिशु इति बहुव्रीहे: स्त्रियां ङी: स्यात् ।अशिश्वी ।।८।।
संख्यादेर्हायनाद् वयसि ।२।४।९॥ संख्यादेर्हायनान्ताद् बहुव्रीहे: स्त्रियां ङी: स्यात् , वयसि गम्ये । द्विहायनी गौः । वयसीति किम् ? द्विहायना शाला ।।९।।
दानः ।२।४।१०॥ संख्यादेर्दामन्नन्ताद् बहुव्रीहे: स्त्रियां ङी: स्यात् । द्विदाम्नी । संख्यादेरित्येवउद्दामानं पश्य ।।१०।।
अनो वा ।२।४।११॥ अनन्ताद् बहुव्रीहे: स्त्रियां ङीर्वा स्यात् । बहुराइयौ , बहुराजे , बहुराजानौ
||११||
नानि ।२॥४॥१२॥ अन्नन्ताद् बहुव्रीहे: स्त्रियां संज्ञायां नित्यं ङी: स्यात् । अधिराज्ञी , सुराज्ञी नाम ग्रामः ।।१२।।
नोपान्त्यवतः ।।४।१३॥ यस्योपान्त्यलुग् नास्ति तस्मादन्नन्ताद् बहुव्रीहे: स्त्रियां डीन स्यात् । सुपर्वा , सुशर्मा । उपान्त्यवत इति किम् ? बहुराज्ञी ॥१३।।
मनः ।२।४॥१४॥ मन्नन्ताद् स्त्रियां डीन स्यात् । सीमानौ ॥१४॥
ताभ्यां वाऽऽप् डित् ।२।४।१५॥ मन्नन्ताद् बहुव्रीहेश्चाऽनन्तात् स्त्रियाम् आप् वा स्यात् , स च डित् । सीमे , सुपर्वे । पक्षे-सीमानौ , सुपर्वाणौ ॥१५।।
अजादेः ।२।४।१६॥ अजादेस्तस्यैव स्त्रियाम् आप् स्यात् । अजा , बाला , ज्येष्ठा , क्रुञ्चा ।।१६।।
ऋचि पादः पात्पदे ।।४।१७॥ कृतपाद्भावपादस्य ऋच्यर्थे पात् पदेति निपात्यते । त्रिपात् , त्रिपदा गायत्री । ऋचीति किम् ? द्विपात् , द्विपदी ।।१७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org