________________
स्वोपज्ञलघुवृत्तिविभूषितं
[ चतुर्थः पादः ]
स्त्रियां नृतोऽस्वस्रादेर्डी ।२।४।१॥ स्त्रीवृत्तेर्नान्ताद् ऋदन्ताच्च स्वस्रादिवर्जाद् डी: स्यात् । राज्ञी , अतिराज्ञी , क: । स्त्रियामिति किम् ? पञ्च नद्यः । अस्वस्रादेरिति किम् ? स्वसा , दुहिता ॥१॥
अधातूदृदितः ।२।४॥२॥ अधातुर्य उदिद् ऋदिच तदन्तात् स्त्रीवृत्तेम: स्यात् । भवती , अतिमहती , पचन्ती । अधात्विति किम् ? सुकन् स्त्री ।।२।।
अञ्चः ।२।४॥३॥ अश्चन्तात् स्त्रियां ङी: स्यात् । प्राची , उदीची ॥३॥
__ण-स्वरा-ऽघोषाद् वनो रश्च ।२।४॥४॥ एतदन्ताद् विहितो यो वन् तदन्तात् स्त्रियां ङी: स्यात् , तद्योगे वनोऽन्तस्य रश्च । अवावरी , धीवरी , मेरुदृश्वरी । ण-स्वरा-ऽघोषादिति किम् ? सहयुध्वा स्त्री। विहितविशेषणं किम् ? शर्वरी ॥४॥
वा बहुव्रीहेः ।२।४।५॥ ण-स्वरा-ऽघोषाद् विहितो यो वन् तदन्ताद् बहुव्रीहे: स्त्रियां ङीर्वा स्यात् , रश्वान्तस्य । प्रियावावरी , प्रियावावा । बहुधीवरी , बहुधीवा । बहुमेरुदृश्वरी , बहुमेरुदृश्वा ।।५।।
वा पादः।२।४॥६॥ बहुव्रीहेस्तद्धेतुकपाच्छब्दान्तात् स्त्रियां ङीर्वा स्यात् । द्विपदी ,द्विपात् । बहुव्रीहिनिमित्तो यः पाद् इति विशेषणादिह न स्यात्- पादमाचष्टे पाद् , त्रयः पादोऽस्या: त्रिपात् ।।६।।
ऊनः ।२।४॥७॥ ऊधन्नन्ताद् बहुव्रीहे: स्त्रियां डी: स्यात् । कुण्डोध्नी ।।७।।
अशिशोः ।२।४८॥ १. वर्जान्नाम्नः डीः पा१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org