________________
८८
स्वोपज्ञलघुवृत्तिविभूषितं
आत् ।२।४।१८॥ अकारान्तात् स्त्रियाम् आप् स्यात् । खट्वा , या , सा ।।१८||
गौरादिभ्यो मुख्यान्डी ।२।४।१९॥ गौरादिगणान्मुख्यात् स्त्रियां ङी: स्यात् । गौरी , शबली । मुख्यादिति किम् ? बहुनदा भूमिः ॥१९॥
अणजेयेकण्-नञ्-सञ्-टिताम् ।२।४।२०॥ अणादीनां योऽत् तदन्तात्तेषामेव स्त्रियां ङी: स्यात् । औपगवी , बैदी , सौपर्णेयी , आक्षिकी , स्त्रैणी , पौंस्नी , जानुदघ्नी ॥२०॥
वयस्यनन्त्ये ।।४॥२१॥ कालकृता शरीरावस्था वयस्तस्मिन्नचरमे वर्तमानदकारान्तात् स्त्रियां डी: स्यात् । कुमारी , किशोरी , वधूटी । अनन्त्य इति किम् ? वृद्धा ।।२१।।
द्विगोः समाहारात् ।२।४।२२॥ समाहारद्विगोरदन्तात् स्त्रियां ङी: स्यात् । पञ्चपूली , दशराजी ।।२२।।
परिमाणात् तद्धितलुक्यबिस्ताऽऽचितकम्बल्यात् ।२।४॥२३॥ परितः सर्वतो मानं परिमाणं रूढेः प्रस्थादि , बिस्तादिवर्जपरिमाणान्ताद् द्विगोरदन्तात् तद्धितलुकि स्त्रियां ङी: स्यात् । द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी । परिमाणादिति किम् ? पञ्चभिरश्वैः क्रीता पञ्चाश्वा । तद्धितलुकीति किम् ? द्विपण्या । बिस्तादिवर्जनं किम् ? द्विबिस्ता , द्वयाचिता , द्विकम्बल्या ॥२३॥
काण्डात् प्रमाणादक्षेत्रे ।२।२।२४॥ प्रमाणवाचिकाण्डान्तादक्षेत्रविषयाद् द्विगोस्तद्धितलुकि स्त्रियां डी: स्यात् । आयाम: प्रमाणम् , द्वे काण्डे प्रमाणमस्या: द्विकाण्डी रज्जुः । प्रमाणादिति किम् ? द्विकाण्डा शाटी । अक्षेत्र इति किम् ? त्रिकाण्डा क्षेत्रभक्तिः ।।२४||
पुरुषाद् वा ।।४॥२५॥ प्रमाणवाचिपुरुषान्ताद् द्विगोस्तद्धितलुकि स्त्रियां ङीर्वा स्यात्। द्विपुरुषी द्विपुरुषा परिखा । तद्धितलुकीत्येव-पञ्च पुरुषाः समाहताः पञ्चपुरुषी ।।२५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org