SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं ८ ण् स्यात् , परिपूर्वस्य तु वा स्यात् । प्राणिणिषति , पराणिति , हे प्राण ! । पर्यणिणिषति , पर्यनिनिषति ; पर्यणिति , पर्यनिति ; हे पर्यण् ! , हे पर्यन् ! ॥८१॥ हनः ।२।३।८२॥ अदुरुपसर्गान्तःस्थाद् रादेः परस्य हन्तेर्नो ण् स्यात् । प्रहण्यते , अन्तर्हण्यते ||८२॥ व-मि वा ।२।३।८३॥ अदुरुपसर्गान्त:स्थाद् रादेः परस्य हन्ते! व्-मो: परयो वा स्यात् । प्रहण्व: , प्रहन्वः ; प्रहण्मि , प्रहन्मि ; अन्तर्हण्वः , अन्तर्हन्व: ; अन्तर्हण्म: , अन्तर्हन्म: ।।८३॥ निस-निक्ष-निन्दः कृति वा ।२।३।८४॥ अदुरुपसर्गान्त:स्थाद् रादेः परस्य निसादिधातोर्नो ण् वा स्यात् , कृत्प्रत्यये । प्रणिंसनम् , प्रनिंसनम् ; प्रणिक्षणम् , प्रनिक्षणम् ; प्रणिन्दनम् , प्रनिन्दनम् । कृतीति किम् ? प्रणिंस्ते ।।८४।। स्वरात् ।२।३।८५॥ अदुरुपसर्गान्त:स्थाद् रादेः परस्य स्वरादुत्तरस्य कृतो नो ण् स्यात् । प्रहाण: , प्रहीण: ।।८।। नाम्यादेरेव ने ।२॥३॥८६॥ अदुरुपसर्गान्त:स्थाद् रादेः परस्य नाऽऽगमे सति नाम्यादेरेव धातो: परस्य स्वरात् परस्य कृतस्य नो ण् स्यात् । प्रेङ्खणम् , प्रेक्षणीयम् । नाम्यादेरिति किम् ? प्रमङ्गनम् ॥८६।। व्यञ्जनादे म्युपान्त्याद् वा ।२।३।८७॥ अदुरुपसर्गान्त:स्थाद् रादे: परो यो व्यञ्जनादिर्नाम्युपान्त्यो धातुस्तत: परस्य कृत: स्वरात् परस्य नो ण् वा स्यात् । प्रमेहणम् , प्रमेहनम् । व्यञ्जनादेरिति किम् ? प्रोहणम् ।।८७॥ णेर्वा ।२।३।८८॥ अदुरुपसर्गान्त:स्थाद् रादे: परस्य ण्यन्तधातोर्विहितस्य स्वरात् परस्य कृतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy