________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
८३
नो ण् वा स्यात् । प्रमङ्गणा , प्रमङ्गना । विहितविशेषणं किम् ? प्रयाप्यमाण: प्रयाप्यमान इति क्यान्तरेऽपि स्यात् ।।८८।।
निर्विण्णः ।२।३३८९॥ निर्विदे: सत्ता-लाभ-विचारार्थात् परस्य क्तस्य नो णत्वम् स्यात् । निर्विष्ण:
||८९॥
न ख्या-पूग्-भू-भा-कम-गम-प्याय-वेपो णेश्च ।२।३।९०॥ अदुरुपसर्गान्तःस्थाद् रादे: परेभ्य: ख्यादिभ्योऽण्यन्त-ण्यन्तेभ्य: परस्य कृतो नो ण् न स्यात् । प्रख्यानम् , प्रख्यापनम् । प्रपवनम् , प्रपावनम् । प्रभवनम् , प्रभावना । प्रभायमानम् , प्रभापना । प्रकामिनौ , प्रकामना । अप्रगमनि: , प्रगमना । प्रप्यान: , प्रप्यायना । प्रवेपनीयम् , प्रवेपना ।।९।।
देशेऽन्तरोऽयन-हनः ।२।३।९१॥ अन्त:शब्दात्परस्याऽयनस्य हन्तेश्च नो देशेऽर्थे ण् न स्यात् । अन्तरयनोऽन्तर्हननो वा देश: । देश इति किम् ? अन्तरयणम् , अन्तर्हण्यते ।।९१।।
षात् पदे ।२।३१९२॥ पदे परतो य: षस्तत: परस्य नो ण् न स्यात् । सर्पिष्पानम् । पद इति . किम् ? सर्पिष्केण ॥९२।।
पदेऽन्तरेऽनाङ्यतद्धिते ।२।३।९३॥ आङन्तं तद्धितान्तं च मुक्त्वाऽन्यस्मिन् पदे निमित्त-कार्यिणोरन्तरे नो ण न स्यात् । प्रावनद्धम् , रोषभीममुखेन । अनाङीति किम् ? प्राणद्धम् । अतद्धित इति किम् ? आर्द्रगोमयेण ॥९३।।
हनो घि ।२।३।९४॥ हन्तेर्नो घि निमित्त-कार्यिणोरन्तरे सति ण् न स्यात् । शत्रुघ्नः ।।९४।।
नृतेर्यङि ।२।३।९५॥ नृते। यविषये ण् न स्यात् । नरीनृत्यते ,नरिनर्ति । यडीति किम् ? हरिणर्ती नाम कश्चित् ।।९५॥
क्षुम्नादीनाम् ।२।३।९६॥ एषां नो ण् न स्यात् । क्षुम्नाति , आचार्यानी ।।९६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org