________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
? आर्ययूना , प्रपक्कानि , प्रपक्वानाम् , दीर्घाही शरत् ।।७५।।
कवर्गकस्वरवति ।२।३।७६॥ पूर्वपदस्थाद्रादे: परस्य कवर्गवत्येकस्वरवति चोत्तरपदे सति , उत्तरपदान्तनस्यादेनों ण् स्यात् , न चेदसौ पक्कस्य । स्वर्गकामिणौ , वृषगामिणौ ; ब्रह्महणौ , यूषपाणि । अपक्कस्येत्येव-क्षीरपक्केन ।।७६।।।
अदुरुपसर्गान्तरो ण-हिनु-मीनाऽऽनेः ।२।३।७७॥ दुर्व|पसर्गस्थादन्त:शब्दस्थाच्च रादे: परस्यैषां नो ण् स्यात् । णेति णोपदेशा धातव:-प्रणमति , परिणायक: , अन्तर्णयति । हिनु-प्रहिणुत: । मीना-प्रमीणीत: । आनि-प्रयाणि । अदुरिति किम् ? दुर्नय: ।।७७।।
नशः शः ।२।३।७८॥ अदुरुपसर्गान्त:स्थाद् रादे: परस्य नश: शान्तस्य नो ण् स्यात् । प्रणश्यति , अन्तर्णश्यति । श इति किम् ? प्रनक्ष्यति ॥७८।।
नेमा-दा-पत-पद-नद-गद-वपी-वही-शमू-चिग्-याति-वातिद्राति-प्साति-स्यति-हन्ति-देग्धौ ।२।३।७९॥ __ अदुरुपसर्गान्त:स्थाद् रादेः परस्योपसर्गनेर्नो माङादिषु परेषु ण् स्यात् । प्रणिमिमीते , परिणिमयते। प्रणिददाति , परिणिदयते , प्रणिदधाति । प्रणिपतति । परिणिपद्यते । प्रणिनदति । प्रणिगदति । प्रणिवपति । प्रणिवहति । प्रणिशाम्यति । प्रणिचिनोति । प्रणियाति । प्रणिवाति । प्रणिद्राति । प्रणिप्साति । प्रणिष्यति । प्रणिहन्ति । प्रणिदेग्धि । अन्तर्णिमिमीते ॥७९।।
अक-खाद्यषान्ते पाठे वा ।२।३।८०॥ धातुपाठे क-खादि: षान्तश्च यो धातुस्ताभ्यामन्यस्मिन् धातौ परेऽदुरुपसर्गान्त:स्थाद् रादेः परस्य नेर्नो ण् वा स्यात् । प्रणिपचति , प्रनिपचति । अकखादीति किम् ? प्रनिकरोति , प्रनिखनति । अषान्त इति किम् ? प्रनिद्वेष्टि । पाठ इति किम् ? प्रनिचकार ।।८०॥
द्वित्वेऽप्यन्तेऽप्यनितेः , परेस्तु वा ।२।३।८१॥ अदुरुपसर्गान्त:स्थाद् रादे: परस्याऽनिते! द्वित्वा-ऽद्वित्वयोरन्ता-ऽनन्तयोश्च १. अत्र खं३ समाप्तः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org