SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं ण् वा स्यात् । दुर्वावणम्, दुर्वावनम् ; माषवणम् माषवनम् ; नीवारवणम् , नीवारवनम् । वृक्ष शिग्रुवणम् शिग्रुवनम् शिरीषवणम् शिरीषवनम् । ; इरिकादिवर्जनं किम् ? इरिकावनम् ||६७ || ८० - " गिरिनद्यादीनाम् | २|३|६८॥ एषाम् नो ण् वा स्यात् । गिरिणदी, गिरिनदी ; तूर्यमाण:, तूर्यमान: ॥६८॥ " पानस्य भावकरणे | २|३|६९॥ पूर्वपदस्थाद् रादेः परस्य भावकरणार्थस्य पानस्य नो ण् वा स्यात् । क्षीरपाणं क्षीरपानं स्यात् । कषायपाणः कषायपानः कंसः ||६९ || देशे | २|३|७० ॥ पूर्वपदस्थाद रादेः परस्य देशविषयस्य पानस्य नो ण् नित्यम् स्यात् । क्षीरपाणा उशीनराः । देश इति किम् ? क्षीरपाना गोदुहः || ७०|| ग्रामा - sग्रान्नियः | २|३|७१ ॥ Jain Education International 7 आभ्यां परस्य नियो नो ण् स्यात् । ग्रामणीः, अग्रणीः ॥ ७१ ॥ वाह्याद् वाह्नस्य | २|३|७२ || वाह्यवाचिनो रादिमतः पूर्वपदात् परस्य वाहनस्य नो ण् स्यात् । इक्षुवाहणम् | वाह्यादिति किम् ? सुरवाहनम् ||७२ || अतोऽह्नस्य |२|३|७३॥ रादिमतोऽदन्तात् पूर्वपदात् परस्याऽह्नस्य नो ण् स्यात् । पूर्वाह्णः । अत इति किम् ? दुरह्नः । अह्नस्येति किम् ? दीर्घाह्नी शरत् ||७३|| चतुर्हायनस्य वयसि । २|३|७४ ॥ - आभ्यां पूर्वपदाभ्यां परस्य हायनस्य नो ण् स्यात्, वयसि गम्ये । चतुर्हायणो वत्सः, त्रिहायणी वडवा । वयसीति किम् ? चतुर्हायना शाला ||७४ || वोत्तरपदान्तन- स्यादेरयुव पक्का - ऽह्नः | २|३|७५ ॥ पूर्वपदस्थाद् रादेः परस्य उत्तरपदान्तभूतस्य नाऽऽगमस्य स्यादेश्च नो ण् वा स्यात्, चेद् युवन्-पक्वा ऽहन्सम्बन्धी न स्यात् । व्रीहिवापिणौ, व्रीहिवापिनौ ; माषवापाणि, माषवापानि ब्रीहिवापेण ब्रीहिवापेन । युवादिवर्जनं किम् ; , For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy