SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ७२ गतौ सेधः ।२।३।६१॥ गत्यर्थस्य सेध: स: ष् न स्यात् । अभिसेधति गाः । गताविति किम् ? निषेधति पापात् ॥६१|| सुगः स्य-सनि ।२।३।६२॥ सुनोते: स: स्ये सनि च ष् न स्यात् । अभिसोष्यति , सुसूषते: किप् सुसू: ।।६२।। र-वर्णान्नो ण एकपदेऽनन्त्यस्याऽल-च-ट-तवर्ग-श-सान्तरे ।२।३।६३॥ एभ्यः परस्यैभिः सहैकस्मिन्नेव पदे स्थितस्याऽनन्त्यस्य नो ण: स्यात् , ल-च-ट-तवर्गान् श-सौ च मुक्त्वाऽन्यस्मिन्निमित्त-कार्यिणोरन्तरेऽपि । तीर्णम् , पुष्णाति , नृणाम् , नृणाम् , करणम् , बृंहणम् , अर्केण । एकपद इति किम् ? अग्निर्नयति चर्मनासिकः । अनन्त्यस्येति किम् ? वृक्षान् । लादिवर्जनं किम् ? विरलेन , मूर्छनम् , दृढेन , तीर्थेन , रशना , रसना ॥६३|| पूर्वपदस्थानाम्न्यगः ।२।३।६४॥ गन्तवर्जपूर्वपदस्थाद् र-घृवर्णात् परस्योत्तरपदस्थस्य नो ण् स्यात् संज्ञायाम् । द्रुणस: , खरणा: , शूर्पणखा । नानीति किम् ? मेषनासिकः । अग इति किम् ? ऋगयनम् ।।६४॥ नसस्य ।२।३॥६५॥ पूर्वपदस्थाद् र-पृवर्णात् परस्य नसस्य नो ण् स्यात् । प्रणसः ॥६५।। निष्प्रा-ऽग्रे-ऽन्तः-खदिर-कार्या-ऽऽम्र-शरेक्षु-प्लक्ष-पीयुक्षाभ्यो वनस्य ।२।३॥६६॥ निरादिभ्य: परस्य वनस्य नो ण् स्यात् । निर्वणम् , प्रवणम् , अग्रेवणम् , अन्तर्वणम् , खदिरवणम् , कार्यवणम् , आम्रवणम् , शरवणम् , इक्षुवणम् , प्लक्षवणम् , पीयुक्षावणम् ॥६६॥ द्वि-त्रिस्वरौषधि-वृक्षेभ्यो नवाऽनिरिकादिभ्यः ।२।३।६७॥ द्विस्वरेभ्यस्त्रिस्वरेभ्यश्चेरिकादिवर्जेभ्य ओषधि-वृक्षवाचिभ्य: परस्य वनस्य नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy