SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ७८ स्वोपज्ञलघुवृत्तिविभूषितं परेः स्कन्द: स: ष् वा स्यात् । परिष्कन्ता , परिस्कन्ता ; परिष्कण्ण: , परिस्कन्नः ॥५२॥ निर्नेः स्फुर-स्फुलोः ।२।३१५३॥ आभ्यां परयोः स्फुर-स्फुलोः सः ष् वा स्यात् । नि:ष्फुरति , नि:स्फुरति: ; निष्फुरति , निस्फुरति ; नि:ष्फुलति , नि:स्फुलति ; निष्फुलति , निस्फुलति ॥५३।। वेः ।२।३।५४॥ वे: परयो: स्फुर-स्फुलो: सः ष्वा स्यात् । विष्फुरति , विस्फुरति ; विष्फुलति , विस्फुलति ॥५४॥ स्कनः ।२।३॥५५॥ वे: स्कनः सः ष् नित्यं स्यात् । विष्कघ्नाति ॥५५।। निर्-दुः-सु-वेः सम-सूतेः ।२।३।५६॥ एभ्यः परस्य सम-सूत्योः सः ष् स्यात् । नि:षमः , दुःषमः , सुषम: , विषमः , नि:पूतिः , दु:षूतिः , सुषूतिः , विषूति: ॥५६॥ अवः स्वपः ।२।३।५७॥ निर्-दुः-सु-विपूर्वस्य वहीनस्य स्वपेः सः ष् स्यात् । निःषुषुपतुः , दुःषुषुपतु: , सुषुषुपतुः , विषुषुपतु: । अव इति किम् ? दुःस्वप्नः ॥५७|| प्रादुरुपसर्गाद्यस्वरेऽस्तेः ।२।३१५८॥ प्रादुरुपसर्गस्थाच्च नाम्यादेः परस्याऽस्ते: सो यादौ स्वरादौ च परे ष् स्यात् । प्रादु:ष्यात् , विष्यात् , निष्यात् , प्रादुःषन्ति , विषन्ति , निषन्ति । यस्वर इति किम् ? प्रादुःस्तः ।।५८|| न स्सः ।२।३।५९॥ कृतद्वित्वस्य सस्य ष् न स्यात् । सुपिस्स्यते ॥५९।। सिचो यङि ।२।३।६०॥ सिच: सो यङि ष् न स्यात् ।। सेसिच्यते ॥६०॥ १. निःषन्ति पा२,३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy