________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
७७
परि-नि-वेः सेवः ।२।३।४६॥ पर्याद्युपसर्गस्थानाम्यादेः परस्य सेवते: सो द्वित्वेऽप्यट्यपि ष् स्यात् । परिषेवते , परिषिषेविषते , पर्यषेवत , निषेवते , विषिषेवे ॥४६।।।
सय-सितस्य ।२।३।४७॥ परि-नि-वे: परस्य सय-सितयो: स: ष् स्यात् । परिषयः , निषय: , विषय: , परिषित: , निषित: , विषितः ।।४७।।
__ असोङ-सिवू-सह-स्सटाम् ।२।३॥४८॥ परि-नि-विभ्य: परस्य सिवू-सहो: स्सटश्च स: ष् स्यात् , न चेत् सिवू-सही सो-डविषयौ स्याताम् । परिषीव्यति , निषीव्यति , विषीव्यति । परिषहते , निषहते , विषहते । परिष्करोति , विष्किरः । असोडेति किम् ? परिसोढः , मा परिसीषिवत् , मा परिसीषहत् ।।४८।।
स्तु-स्वञश्चाऽटि नवा ।२।३॥४९॥ परि-नि-वे: परस्य स्तु-स्वोरसोङ-सिवू-सह-स्सटां च सोऽटि सति ष् वा स्यात् । पर्यष्टौत् , पर्यस्तौत् ; न्यष्टौत् ,. न्यस्तौत् ; व्यष्टौत् , व्यस्तौत् । पर्यष्वजत , पर्यस्वजत ; न्यष्वजत , न्यस्वजत ;व्यष्वजत , व्यस्वजत । पर्यषीव्यत् , पर्यसीव्यत् ; न्यषीव्यत् , न्यसीव्यत् ; व्यषीव्यत् , व्यसीव्यत् । पर्यषहत , पर्यसहत ; न्यषहत , न्यसहत ; व्यषहत , व्यसहत । पर्यष्करोत् , पर्यस्करोत् । असोङसिवूसहेत्येव-पर्यसोढयत् , पर्यसीषिवत् , पर्यसीषहत् ।।४९।।
निरभ्यनोश्च स्यन्दस्याऽप्राणिनि ।२।३।५०॥ एभ्य: परि-नि-वेश्च परस्याऽप्राणिकर्तृकार्थवृत्तेः स्यन्द: स: ष् वा स्यात् । नि:ष्यन्दते , नि:स्यन्दते ; अभिष्यन्दते , अभिस्यन्दते ; अनुष्यन्दते , अनुस्यन्दते ; परिष्यन्दते , परिस्यन्दते ; निष्यन्दते , निस्यन्दते ; विष्यन्दते , विस्यन्दते तैलम् । अप्राणिनीति किम् ? परिस्यन्दते मत्स्यः ||५०||
वेः स्कन्दोऽक्तयोः ।२।३॥५१॥ विपूर्वस्य स्कन्दः स: ष् वा स्यात् , न चेत् क्त-क्तवतू स्याताम् । विष्कन्ता , विस्कन्ता । अक्तयोरिति किम् ? विस्कन्नः , विस्कन्नवान् ॥५१॥
परेः ।२॥३॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org