SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं वे: परस्य स्तृसस्य समासे ष् स्यात् , नाम्नि । विष्टरो वृक्षः , विष्टरं पीठम् ।।२३।। __ अभिनिष्टानः ।२।३।२४॥ अभि-निभ्यां स्तान: समासे कृतषत्वो निपात्यते नाम्नि । अभिनिष्टानो वर्ण: ॥२४॥ गवि-युधेः स्थिरस्य ।२।३।२५॥ आभ्यां परस्य स्थिरस्य सः समासे ष् स्यात् , नाम्नि । गविष्ठिरः , युधिष्ठिरः ॥२५॥ एत्यकः ।२।३।२६॥ कवर्जानाम्यादे: परस्य स एति परे समासे ष् स्यात् , नाम्नि । हरिषेण: , श्रीषेण: । अक इति किम् ? विष्वक्सेनः ।।२६।। भादितो वा ।२।३॥२७॥ नक्षत्रवाचिन इदन्तात् परस्य स एति परे समासे ष् वा स्यात् , नाग्नि । रोहिणिषेण: , रोहिणिसेनः । इत इति किम् ? पुनर्वसुषेणः ॥२७|| वि-कु-शमि-परेः स्थलस्य ।२।३॥२८॥ एभ्यः परस्य स्थलस्य सः समासे ष् स्यात् । विष्ठलम् , कुष्ठलम् , शमिष्ठलम् , परिष्ठलम् ।।२८।। __ कपेर्गोत्रे ।२।३।२९॥ कपे: परस्य स्थलस्य स: समासे ष् स्यात् , गोत्रे वाच्ये । कपिष्ठल ऋषि: ।।२९।। गो-ऽम्बा-ऽऽम्ब-सव्या-ऽप-द्वि-त्रि-भूम्यग्नि-शेकु-शकु-क्वङ्गुमञ्जि-पुञ्जि-बर्हिः-परमे-दिवेः स्थस्य ।२।३॥३०॥ एभ्य: परस्य स्थस्य सः समासे ष् स्यात् । गोष्ठम् , अम्बष्ठ: , आम्बष्ठः , सव्यष्ठः , अपष्ठ: , द्विष्ठः , त्रिष्ठः , भूमिष्ठः , अग्निष्ठः , शेकुष्ठः , शङ्कुष्ठः , कुष्ठः , अङ्गुष्ठः , मञ्जिष्ठः , पुञ्जिष्ठः , बर्हिष्ठः , परमेष्ठः , दिविष्ठः ।।३०।। निर्दुस्सोः सेध-सन्धि-सानाम् ।२।३॥३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy