SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । स्युः । भ्रातुष्पुत्रः, परमयजुष्पात्रम् ; कस्कः, कौतस्कुतः || १४ || नाम्यन्तस्था- कवर्गात् पदान्तः कृतस्य सः शिड्- नान्तरेऽपि । २।३।१५ ॥ एभ्यः परस्य पदस्यान्तर्मध्ये कृतस्य कृतस्थस्य वा सस्य ष् स्यात्, शिटा नकारेण चाऽन्तरेऽपि । आशिषा, नदीषु वायुषु वधूषु पितृषु एषा गोषु, नौषु, सिषेवे गीर्षु, हल्षु; शक्ष्यति क्रुषु । शिड्नान्तरेऽपि-सर्पिष्षु यजूंषि । पदान्तरिति किम् ? दधिसेक् । कृतस्येति किम् ? बिसम् || १५ | समासेऽग्नेः स्तुतः | २|३|१६॥ , ; , | अग्नेः परस्य स्तुतः सस्य समासे ष् स्यात् । अग्निष्टुत् ||१६|| ज्योतिरायुर्भ्यां च स्तोमस्य | २|३|१७|| 7 आभ्यामग्नेश्च परस्य स्तोमस्य सस्य समासे ष् स्यात् । ज्योतिष्टोमः आयुः ष्टोमः, अग्निष्टोमः । समास इत्येव - ज्योतिः स्तोमं याति ||१७| मातृ-पितुः स्वसुः | २|३|१८|| " आभ्यां परस्य स्वसुः सस्य समासे ष् स्यात् । मातृष्वसा पितृष्वसा ॥ १८ ॥ अलुपि वा । २।३।१९॥ मातृपितुः परस्य स्वसुः सस्याऽलुपि समासे वा ष् स्यात् । मातुःष्वसा मातुःस्वसा ; पितुःष्वसा पितुःस्वसा ॥ १९ ॥ नि - नद्याः स्नातेः कौशले | २|३|२०|| 7 Jain Education International ७३ For Private & Personal Use Only , आभ्यां परस्य स्नातेः सस्य समासे ष् स्यात्, कौशले गम्यमाने । निष्णो निष्णातो वा पाके, नदीष्णो नदीष्णातो वा प्रतरणे | कौशल इति किम् ? निस्नातः, नदीस्रः यः स्रोतसा ह्रियते ॥ २० ॥ प्रतेः स्नातस्य सूत्रे | २|३|२१| 1 प्रतेः परस्य स्नातस्थस्य सस्य समासे ष् स्यात्, सूत्रे वाच्ये । प्रतिष्णातं सूत्रम् । प्रत्ययान्तोपादानं किम् ? प्रतिस्रातृ सूत्रम् ||२१|| नाना | २|३॥२२॥ , प्रतेः परस्य स्नानस्य सः समासे ष् स्यात्, सूत्रविषये नानि । प्रतिष्णाम् सूत्रमित्यर्थः ||२२|| वेः स्त्रः ।२।३।२३॥ www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy