________________
७२
स्वोपज्ञलघुवृत्तिविभूषितं
नामिनस्तयोः षः ।२।३॥८॥ तयोः प्रत्ययस्थे कखपफि रोरेव च काम्ये , नामिन: परस्य रस्य ष् स्यात् । सर्पिष्पाशम् , धनुष्कल्पम् , धानुष्क: , सर्पिष्काम्यति । नामिन इति किम् ? अयस्कल्पम् । रोः काम्य इत्येव-गी काम्यति ।।८।।
निर्दुर्बहिराविष्प्रादुश्चतुराम् ।२।३॥९॥ निरादीनां रस्य कखपफि ष् स्यात् । निष्कृतम् , दुष्कृतम् , बहिष्पीतम् आविष्कृतम् , प्रादुष्कृतम् , चतुष्पात्रम् ।।९।।
सुचो वा ।२।३।१०॥ सुजन्तस्थस्य रस्य कखपफि ष् वा स्यात् । द्विष्करोति , द्वि करोति । चतुष्फलति , चतुफलति ।।१०।।
वेसुसोऽपेक्षायाम् ।२।३।११॥ इसुस्प्रत्ययान्तस्य रस्य कखपफि ष् वा स्यात् , स्थानि-निमित्तयोरपेक्षा चेत् । सर्पिष्करोति , सर्पि करोति । धनुष्वादति , धनु खादति । अपेक्षायामिति किम् ? परमसर्पि कुण्डम् ।।११।।
नैकार्थेऽक्रिये ।२।३।१२॥ ने विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन्नेकार्थे तुल्याधिकरणे पदे यत् कखपर्फ तस्मिन् परे इसुस्प्रत्ययान्तस्य रस्य ष् न स्यात् । सर्पि कालकम् । यजुपीतकम् । एकार्थ इति किम् ? सर्पिष्कुम्भे , सर्पि कुम्भे । अक्रिय इति किम् ? सर्पिष्क्रियते , सर्पि क्रियते ।।१२।।
समासेऽसमस्तस्य ।२।३।१३॥ पूर्वेणाऽसमस्तस्य इसुस्प्रत्ययान्तस्य रस्य कखपफि ष् स्यात् , निमित्तनिमित्तिनौ चेदेकत्र समासे स्तः । सर्पिष्कुम्भः , धनुष्फलम् । समास इति किम् ? तिष्ठतु सर्पिः , पिब त्वमुदकम् । असमस्तस्येति किम् ? परमसर्पि:कुण्डम् ॥१३॥
भ्रांतुष्पुत्र-कस्कादयः ।२।३।१४॥ भ्रातुष्पुत्रादयः कस्कादयश्च कखपफि रस्य यथासंख्यं कृतषत्वसत्वा: साधवः १. पाशम् , धनुष्पाशम् खं३ ।। २. न क्रिया प्रवृत्ति खं१ J3 विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org