SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [ तृतीय: पाद: ] नमस् - पुरसो गतेः क ख - प - फि रः सः | २|३|१॥ गतिसंज्ञनमस्-पुरसोः क-ख-प- फि रस्य स्ं स्यात् । नमस्कृत्य, पुरस्कृत्य | गतेरिति किम् ? नमः कृत्वा, तिस्रः पुरः करोति ॥ १ ॥ तिरसो वा | २|३|२॥ गतेस्तिरसो रस्य कखपफ स् वा स्यात् । तिरस्कृत्य तिरःकृत्य । गतेरित्येव-तिरः कृत्वा काष्ठं गतः ||२|| पुंसः | २|३|३|| पुंसः सम्बन्धिनो रस्य कखपफि स् स्यात् । पुंस्कोकिलः पुंस्खात:, पुंस्पाकः पुंस्फलम् ॥३॥ शिरो - sधसः पदे समासैक्ये |२| ३ | ४ || " 7 " अनयो रेफस्य पदशब्दे परे स् स्यात् समासैक्ये । शिरस्पदम् अधस्पदम् । समासेति किम् ? शिरः पदम् । ऐक्य इति किम् ? परमशिरःपदम् ||४|| अतः कृ- कमि कंस - कुम्भ- कुशा कर्णी पात्रेऽनव्ययस्य ॥२॥३॥५॥ , ७१ आत् परस्याऽनव्ययस्थस्य रस्य क्रादिस्थे कखपफि परे स् स्यात् समासैक्ये । अयस्कृत्, यशस्कामः पयस्कंसः, अयस्कुम्भः, अयस्कुशा, अयस्कर्णी 7 " अयस्पात्रम् । अत इति किम् ? वा: पात्रम् । अनव्ययस्येति किम् ? स्व: कारः | समासैक्य इत्येव - उपपय: कारः ||५|| प्रत्यये | २|३|६|| , Jain Education International अनव्ययस्य रस्य प्रत्ययविषये कखपफि स् स्यात् । पयस्पाशम्, पयस्कल्पम् पयस्कम् । अनव्ययस्येत्येव-स्वः पाशम् ॥६॥ रोः काम्ये | २|३|७| For Private & Personal Use Only अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये स् स्यात् । पयस्काम्यति । रोरिति किम् ? अहः काम्यति ||७|| १. सः पा१,२ खं१,२ ॥ २. पुम्स: पा२ ॥ ३. पुम्स: खं२ पा१,२ ।। ४. सः खं२ ।। ५. पयस्कर्णी पार विना ॥ www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy