SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । एभ्यः परेषां सेधादीनां स: समासे ष् स्यात् । नि:षेधः , दुःषेधः , सुषेधः , निःषन्धिः , दुःषन्धिः , सुषन्धिः , नि:षाम , दु:षाम , सुषाम ।।३१।। प्रष्ठोऽग्रगे।२।३॥३२॥ प्रात् स्थस्य सः ष् स्यात् , अग्रगामिन्यर्थे । प्रष्ठोऽग्रगः ।।३२।। भीरुष्ठानादयः ।२।३॥३३॥ एते समासे कृतषत्वा: साधव: स्यु: । भीरुष्ठानम् , अङ्गुलिषङ्गः ॥३३॥ ह्रस्वान्नाम्नस्ति ।२।३॥३४॥ नाम्नो विहिते तादौ प्रत्यये ह्रस्वान्नामिनः परस्य सः ष् स्यात् । सर्पिष्टा , वपुष्टमम् । नामिन इत्येव-तेजस्ता ॥३४।। निसस्तपेऽनासेवायाम् ।२।३॥३५॥ निस: सस्तादौ तपतौ परे ष् स्यात् , पुन: पुन: करणाऽभावे । निष्टपति स्वर्णम् , सकृदग्निं स्पर्शयतीत्यर्थः । तीत्येव-निरतपत् ।।३५।। घस्-वसः ।२।३॥३६॥ नाम्यादेः परस्य घस्-वसो: स: ष् स्यात् । जक्षुः , उषितः ॥३६।। णिस्तोरेवाऽस्वद-स्विद-सहः पणि ।२।३॥३७॥ स्वदादिवर्जानां ण्यन्तानां स्तोरेव च सो नाम्यादेः परस्य षत्वभूते सनि ए स्यात् । सिषेवयिषति , तुष्ट्रपति । स्वदादिवर्जनं किम् ? सिस्वादयिषति , सिस्वेदयिषति , सिसाहयिषति । एवेति किम् ? सुसूषति । षणीति किम् ? सिषेव , सुषुप्सति ॥३७॥ सजेर्वा ।२।३।३८॥ ण्यन्तस्य सजे म्यादेः परस्य सः षणि ष् वा स्यात् । सिषञ्जयिषति , सिसञ्जयिषति ॥३८॥ उपसर्गात् सुग्-सुव-सो-स्तु-स्तुभोऽट्यप्यद्वित्वे ।२।३॥३९॥ व्युक्ताभावे सुनोत्यादेः स उपसर्गस्थानाम्यादेः परस्य ष् स्यात् , अड्व्यवधानेऽपि । सुग्-अभिषुणोति , नि:षुणोति , पर्यषुणोत् । सुव-अभिषुवति , पर्यषुवत् । सो-अभिष्यति , पर्यष्यत् । स्तु-अभिष्टौति , दु:ष्टवम् , पर्यष्टौत् । स्तुभ-अभिष्टोभते , पर्यष्टोभत । अद्वित्व इति किम् ? अभिसुसूषति ॥३९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy