________________
स्वोपज्ञलघुवृत्तिविभूषितं
, तद्विभक्तिस्तस्मात् स्यादित्यर्थः , गते गम्येऽप्रयुज्यमाने । गवीधुमत: सांकाश्यं चत्वारि योजनानि चतुषु वा योजनेषु । गत इति किम् ? दग्धेषु लुप्तेष्विति वा गतौ मा भूत् । गम्य इति किम् ? गतप्रयोगे मा भूत् । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे । अन्तेनेति किम् ? अद्य नश्चतुर्पु गव्यूतेषु भोजनम् ॥१०७||
षष्ठी वाऽनादरे ।२।२।१०८॥ यद्भावो भावलक्षणं तद्वृत्तेरनादरे षष्ठी वा स्यात् । रुदतो लोकस्य रुदति वा लोके प्राव्राजीत् ।।१०८।।
सप्तमी चाऽविभागे निर्धारणे ।२।२।१०९॥ जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्ध्या पृथक्करणं निर्धारणम् , तस्मिन् गम्ये षष्ठी-सप्तम्यौ स्याताम् , अविभागे निर्धार्यमाणैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद् गम्यमाने । क्षत्रियो नृणां नृषु वा शूरः , कृष्णा गवां गोषु वा बहुक्षीरा , धावन्तो यातां यात्सु वा शीघ्रतमाः , युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा । अविभागे इति किम् ? मैत्रश्चैत्रात् पटुः ॥१०९।।
क्रियामध्येऽध्व-काले पञ्चमी च ।२।२।११०॥ क्रिययोर्मध्ये यावध्व-कालौ तद्वाचिभ्यां पञ्चमी-सप्तम्यौ स्याताम् । इहस्थोऽयमिष्वास: क्रोशात् क्रोशे वा लक्ष्यं विध्यति , अद्य भुक्त्वा मुनियहात् व्यहे वा भोक्ता ॥११०॥
अधिकेन भूयसस्ते ।२।२।१११॥ अधिकेनाऽल्पीयोवाचिना योगे भूयोवाचिनस्ते सप्तमी-पञ्चम्यौ स्याताम् । अधिको द्रोण: खार्यां खार्या वा ॥१११।।
तृतीयाऽल्पीयसः ।२।२।११२॥ अधिकेन भूयोवाचिना योगेऽल्पीयोवाचिनस्तृतीया स्यात् । अधिका खारी द्रोणेन ॥११२।।
पृथग्-नाना पञ्चमी च ।२।२।११३॥ आभ्यां युक्तात् पञ्चमी तृतीया च स्यात् । पृथग् मैत्रात् मैत्रेण वा । नाना चैत्राचैत्रेण वा ॥११३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org