SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । तेन व्याप्येन युक्ते हेतौ वर्तमानात् सप्तमी स्यात् । चर्मणि दीपिनं हन्ति , दन्तयोर्हन्ति कुञ्जरम् ॥ __ केशेषु चमरी हन्ति , सीनि पुष्कलको हतः ॥१॥ तद्युक्त इति किम् ? वेतनेन धान्यं लुनाति ।।१००॥ अप्रत्यादावसाधुना ।२।२।१०१॥ प्रत्यादेरप्रयोगे , असाधुशब्देन युक्तात् सप्तमी स्यात् । असाधुमैत्रो मातरि । अप्रत्यादाविति किम् ? असाधुमैत्रो मातरं प्रति परि अनु अभि वा ॥१०१।। साधुना ।२।२।१०२॥ अप्रत्यादौ साधुशब्देन युक्तात् सप्तमी स्यात् , साधुर्मातरि। अप्रत्यादावित्येवसाधुर्मातरं प्रति ।।१०२॥ निपुणेन चाऽर्चायाम् ।२।२।१०३॥ निपुण-साधुशब्दाभ्यां युक्तादप्रत्यादौ सप्तमी स्यात् , अर्चायाम् । मातरि निपुण: साधुर्वा । अचार्यामिति किम् ? निपुणो मैत्रो मातु:., मातैवैनं निपुणं मन्यत इत्यर्थः । अप्रत्यादावित्येव-निपुणो मैत्रो मातरं प्रति ॥१०३।। स्वेशेऽधिना।२।२।१०४॥ स्वे ईशितव्ये ईशे च वर्त्तमानादधिना युक्तात् सप्तमी स्यात् । अधि मगधेषु श्रेणिक: , अधि श्रेणिके मगधाः ॥१०४।। उपेनाऽधिकिनि ।२।२।१०५॥ उपेन युक्तादधिकिवाचिन: सप्तमी स्यात् । उपखार्यां द्रोण: ॥१०५॥ यद्भावो भावलक्षणम् ।२।२।१०६॥ भावः क्रिया , यस्य भावेनाऽन्यो भावो लक्ष्यते तद्वाचिन: सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥१०६।। गते गम्येऽध्वनोऽन्तेनैकार्थ्यं वा ।२।२।१०७॥ कुतश्चिदवधेर्विवक्षिताध्वनोऽवसानमन्तः , यद्भावो भावलक्षणं तस्याध्वनोऽध्ववाचिनोऽध्वन एवाऽन्तेन अन्तवाचिना सहैकार्थ्यं सामानाधिकरण्यं वा स्यात् १. 'चर्मणि द्विपिनं हन्ति' एतावानेवांश: पा१ 33 विना । न सम्पूर्णः श्लोकः ।। २. मातरि साधुमैत्रः J3 ।। ३. मातरं परि J3 विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy