SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं ॥९२।। अकमेरुकस्य ।२।२।९३॥ ___ कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न स्यात् । भोगानभिलाषुकः । अकमेरिति किम् ? दास्या: कामुकः ।।९३।। एष्यदृणेनः ।२।२।९४॥ एष्यत्यर्थे ऋणे च विहितस्येन: कर्मणि षष्ठी न स्यात् । ग्रामं गमी आगामी वा , शतं दायी । एष्यदृणेति किम् ? साधु दायी वित्तस्य ।।९४।। सप्तम्यधिकरणे ।२।२।९५॥ अधिकरणे एक-द्वि-बहौ यथासंख्यं ङ्योस्-सुपा सप्तमी स्यात् । दिवि देवा: , तिलेषु तैलम् ॥९५।। नवा सुजथैः काले ।२।२।९६॥ सुचोऽर्थो वारो येषां तत्प्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्तमानात् सप्तमी वा स्यात् । द्विरह्नि अह्रो वा भुङ्क्ते, पञ्चकृत्वो मासे मासस्य वा भुङ्क्ते । काल इति किम् ? द्वि: कांस्यपात्र्यां भुङ्क्ते ॥९६॥ कुशला-ऽऽयुक्तेनाऽऽसेवायाम् ।२।२।९७॥ ___ आभ्यां युक्तादाधारवाचिन: सप्तमी वा स्यात् आसेवायां तात्पर्ये । कुशलो विद्यायां विद्याया वा , आयुक्तस्तपसि तपसो वा । आसेवायामिति किम् ? कुशलश्चित्रे , न तु करोति ; आयुक्तो गौः शकटे , आकृष्य युक्त इत्यर्थः ।।९७|| स्वामीश्वराधिपति-दायाद-साक्षि-प्रतिभू-प्रसूतैः ।२।२।९८॥ एभिर्युक्तात् सप्तमी वा स्यात् । गोषु गवां वा स्वामी , ईश्वरः , अधिपतिः , दायादः , साक्षी , प्रतिभूः , प्रसूतो वा ।।९८॥ व्याप्ये क्तेनः ।२।२।९९॥ क्ताद् य इन् तदन्तस्य व्याप्ये सप्तमी नित्यं स्यात् । अधीतमनेन अधीती व्याकरणे , इष्टी यज्ञे । क्तेति किम् ? कृतपूर्वी कटम् ।।१९।। तद्युक्ते हेतौ ।२।२।१००॥ १. स्यात् कटे आस्ते दिवि J3 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy