SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । कृदन्तस्य कर्तरि षष्ठी स्यात् । भवत आसिका । कर्तरीति किम् ? गृहे शायिका ।।८६।। द्विहेतोरस्त्र्यणकस्य वा ।२।२।८७॥ स्त्र्यधिकारविहिताभ्यामणकाभ्यामन्यस्य द्वयोः कर्तृकर्मषष्ठयोर्हेतोः कृतः कर्तरि षष्ठी वा स्यात् । विचित्रा सूत्राणां कृतिराचार्यस्याऽऽचार्येण वा । द्विहेतोरित्येकवचनं किम् ? आश्चर्यमोदनस्य पाकोऽतिथीनां च प्रादुर्भावः । अस्त्र्यणकस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम् , भेदिका चैत्रस्य काष्ठानाम् |८७॥ कृत्यस्य वा ।२।२।८८॥ कृत्यस्य कर्तरि षष्ठी वा स्यात् । त्वया तव वा कृत्य: कट: ।।८८|| नोभयोर्हेतोः ।२।२।८९॥ उभयोः कर्तृ-कर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव षष्ठी न स्यात् । नेतव्या ग्राममजा मैत्रेण ।।८९|| तृनुदन्ता-ऽव्यय-कस्वाना-ऽतृश्-शतृ-ङि-णकच्-खलर्थस्य १२।२।९०॥ तृन्नादीनां कृतां कर्मकों: षष्ठी न स्यात् । तृन्-वदिता जनापवादान् । उदन्त-कन्यामलङ्करिष्णुः , श्रद्धालुस्तत्त्वम् । अव्यय-कटं कृत्वा , ओदनं भोक्तुं व्रजति । कसु-ओदनं पेचिवान् । आन-कटं चक्राण: , मलयं पवमानः , ओदनं पचमानः , चैत्रेण पच्यमान: । अतृश्-अधीयंस्तत्त्वार्थम् । शतृ-कटं कुर्वन् । ङि-परीषहान् सासहिः । णकच्-कटं कारको व्रजति । खलर्थ-ईषत्करः कटो भवता , सुज्ञानं तत्त्वं त्वया ॥९०।। क्तयोरसदाधारे ।२।२।९१॥ सतो वर्तमानादाधाराच्चान्यत्रार्थे यौ क्त-क्तवतू तयोः कर्म-कों: षष्ठी न स्यात् । कटः कृतो मैत्रेण , ग्रामं गतवान् । असदाधार इति किम् ? राज्ञां पूजितः , इदं सक्तूनां पीतम् ।।९१|| वा क्लीबे ।२।२।९२॥ क्लीबे विहितस्य क्तस्य कर्तरि षष्ठी वा न स्यात् । मयूरस्य मयूरेण वा नृत्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy