________________
स्वोपज्ञलघुवृत्तिविभूपितं
प्रत्यादिभिर्युक्ताद् द्वितीया स्यात् । यदव मां प्रति मां परि मामनु स्यात् तद् दीयताम् । वृक्षं प्रति परि अनु वा विद्युत् । वृक्षं वृक्षं प्रति परि अनु वा सेक: । साधुमैत्रो मित्रं प्रति परि अनु वा । एतेष्विति किम् ? अनु वनस्याऽशनिर्गता ।।३७||
हेतु-सहार्थेऽनुना ।२।२।३८॥ हेतुर्जनक: , सहार्थस्तुल्ययोगो विद्यमानता च , तद्विषयोऽप्युपचारात् , तयोर्वर्तमानादनुना युक्ताद् द्वितीया स्यात् । जिनजन्मोत्सवमन्वागच्छन् सुरा: , गिरिमन्ववसिता सेना ॥३८॥
___ उत्कृष्टेऽनूपेन ।२।२॥३९॥ उत्कृष्टार्थादनूपाभ्यां युक्ताद् द्वितीया स्यात् । अनु सिद्धसेनं कवयः । उपोमास्वातिं संग्रहीतारः ।।३९।।
कर्मणि ।२।२।४०॥ नाम्नः कर्मणि द्वितीया स्यात् । कटं करोति , तण्डुलान् पचति , रविं पश्यति , अजां नयति ग्रामम् , गां दोग्धि पय: ।।४।।
क्रियाविशेषणात् ।२।२।४१॥ क्रियाया यद्विशेषणं तद्वाचिनो द्वितीया स्यात् । स्तोकं पचति । सुखं स्थाता ||४||
काला-ऽध्वनोाप्तौ ।२।२।४२॥ व्याप्तिरत्यन्तसंयोगः , व्याप्तौ द्योत्यायां कालाध्ववाचिभ्यां द्वितीया स्यात् । मासं गुडधाना: , कल्याणी , अधीते वा । क्रोशं गिरिः , कुटिला नदी , अधीते वा । व्याप्ताविति किम् ? मासस्य मासे वा व्यहं गुडधाना: । क्रोशस्य क्रोशे वा एकदेशे कुटिला नदी ॥४२।।
सिद्धौ तृतीया ।२।२।४३॥ सिद्धौ फलनिष्पत्तौ द्योत्यायां कालाध्ववाचिभ्यां टा-भ्याम्-भिस्लक्षणा तृतीया यथासंख्यमेक-द्वि-बहौ स्यात् । मासेन मासाभ्यां मासैर्वाऽऽवश्यकमधीतम् । *क्रोशेन क्रोशाभ्यां क्रोशैर्वा प्राभृतमधीतम्* । सिद्धाविति किम् ? मासमधीत १. * * J3 विना नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org