________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
आचारो न तु गृहीतः ॥४३॥
हेतु-कर्तृ-करणेत्थम्भूतलक्षणे ।२।२॥४४॥ फलसाधनयोग्यो हेतु: , कञ्चित् प्रकारमापन्नस्य चिह्नमित्थम्भूतलक्षणम् । हेत्वादिवृत्ते नस्तृतीया स्यात् । धनेन कुलम् , चैत्रेण कृतम् , दात्रेण लुनाति , अपि त्वं कमण्डलुना छात्रमद्राक्षी: ? ॥४४||
सहार्थे ।२।२॥४५॥ सहार्थे तुल्ययोगे विद्यमानतायां च गम्यमाने नाम्नस्तृतीया स्यात् । पुत्रेण सहाऽऽगतः स्थूलो गोमान् ब्राह्मणो वा।
*एकेनापि सुपुत्रेण , सिंही स्वपिति निर्भरम् ।* सहैव दशभिः पुत्रैर्भार वहति गर्दभी ॥१॥ ॥४५॥
यद्भेदैस्तद्वदाख्या ।२।२।४६॥ यस्य भेदिनो भेदैः प्रकारैस्तद्वतोऽर्थस्याऽऽख्या निर्देश: स्यात्तद्वाचिनस्तृतीया स्यात् । अक्ष्णा काण: , पादेन खञ्जः , प्रकृत्या दर्शनीयः । तद्वद्ग्रहणं किम् ? अक्षि काणं पश्य । आख्येति प्रसिद्धिपरिग्रहार्थम् , तेनाऽक्ष्णा दीर्घ इति न स्यात् ।।४६।।
कृतायैः ।२।२॥४७॥ कृताधैर्निषेधार्थैर्युक्तात् तृतीया स्यात् । कृतं तेन , किं गतेन ॥४७||
काले भानवाऽऽधारे ।२।२।४८॥ कालवृत्तेर्नक्षत्रार्थादाधारे तृतीया वा स्यात् । पुष्येण पुष्ये वा पायसमश्नीयात् । काल इति किम् ? पुष्येऽर्कः । भादिति किम् ? तिलपुष्पेषु यत् क्षीरम् । आधार इति किम् ? अद्य पुष्यं विद्धि ॥४८॥
प्रसितोत्सुका-ऽवबद्धैः ।२।२।४९।। एतैर्युक्तादाधारवृत्तेस्तृतीया वा स्यात् । केशैः केशेषु वा प्रसितः , गृहेण गृहे वा उत्सुक: , केशैः केशेषु वाऽवबद्धः ।।४९।।
. व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ।२।२।५०॥ व्याप्यवृत्तिभ्यो द्विद्रोणादिभ्यो वीप्सायां तृतीया वा स्यात् । द्विद्रोणेन , द्विद्रोणं १.किंचि खं१,२ J3 एवं २।२।३६वृत्तावपि प्रत्यन्तरेषु ॥२.* * पा१ J3 विना नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org