SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ५६ स्वोपज्ञलघुवृत्तिविभूषितं कल्याणे अभिनिविशते ॥२२॥ कालाव-भाव-देशं वाऽकर्म चाऽकर्मणाम् ।२।२।२३॥ कालादिराधारोऽकर्मणां धातूनां योगे कर्माऽकर्म च युगपद्वा स्यात्। मासमास्ते , क्रोशं शेते , गोदोहमास्ते , कुरूनास्ते । पक्षे-मासे आस्ते इत्यादि । अकर्म चेति किम् ? मासमास्यते । अकर्मणामिति किम् ? रात्राबुद्देशोऽधीतः ।।२३।। साधकतमं करणम् ।२।२।२४॥ क्रियायां प्रकृष्टोपकारकं करणं स्यात् । दानेन भोगानाप्नोति ॥२४॥ कर्माभिप्रेयः संप्रदानम् ।२।२।२५॥ कर्मणा व्याप्येन क्रियया वा यमभिप्रेयते स सम्प्रदानं स्यात् । देवाय बलिं दत्ते , राज्ञे कार्यमाचष्टे , पत्ये शेते ॥२५।। स्पृहेाप्यं वा ।२।२।२६॥ स्पृहेाप्यं वा संप्रदानं स्यात् । पुष्पेभ्य: पुष्पाणि वा स्पृहयति ॥२६।। क्रुध्-द्रुहेा -ऽसूयार्थैर्य प्रति कोपः ।२।२।२७॥ क्रुधाद्यर्थैर्धातुभिर्योगे यं प्रति कोपस्तत् सम्प्रदानं स्यात् । मैत्राय क्रुध्यति द्रुह्यति ईय॑ति असूयति वा । यं प्रतीति किम् ? मनसा क्रुध्यति । कोप इति किम् ? शिष्यस्य कुप्यति विनयार्थम् ।।२७।। - नोपसर्गात् क्रुद्-द्रुहा ।२।२।२८॥ सोपसर्गाभ्यां क्रुद्-द्रुहिभ्यां योगे यं प्रति कोपस्तत् संप्रदानं न स्यात् । मैत्रमभिक्रुध्यति अभिद्रुह्यति वा । उपसर्गादिति किम् ? मैत्राय क्रुध्यति द्रुह्यति वा ।।२८॥ अपायेऽवधिरपादानम् ।२।२।२९॥ अपाये-विश्लेषे योऽवधिस्तद् अपादानं स्यात् । वृक्षात् पर्णं पतति , व्याघ्राद् बिभेति , अधर्माज्जुगुप्सते विरमति वा , धर्मात् प्रमाद्यति , चौरेभ्यस्त्रायते , अध्ययनात् पराजयते , यवेभ्यो गां रक्षति , उपाध्यायादन्तर्धत्ते , शृङ्गाच्छरो जायते , हिमवतो गङ्गा प्रभवति , वलभ्याः शत्रुञ्जयः षड् योजनानि , कार्त्तिक्या आग्रहायणी मासे , चैत्रान्मैत्र: पटुः , माथुरा: पाटलिपुत्रकेभ्य आढ्यतराः ।।२९।। क्रियाश्रयस्याऽऽधारोऽधिकरणम् ।२।२।३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy