SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं वहेः प्रवेयः ।२।२|७|| वरणकर्त्ता प्रवेयो णौ कर्म स्यात् । वाहयति भारं बलीवर्दान् । प्रवेय इति किम् ? वायति भारं मैत्रेण ||७|| ह- क्रोर्नवा | २|२|८|| ५४ , ह - क्रोरणिक्कर्त्ता णौ कर्म वा स्यात् । विहारयति देशं गुरुं गुरुणा वा आहारयत्योदनं बालं बालेन वा कारयति कटं चैत्रं चैत्रेण वा ||८|| भवदोरात्मने | २|२|९|| , दृश्यभिवदोरात्मनेपदविषयेऽणिक्कर्त्ता णौ कर्म वा स्यात् । दर्शयते राजा भृत्यान् भृत्यैर्वा, अभिवादयते गुरुः शिष्यं शिष्येण वा । आत्मन इति किम् ? दर्शयति रूपतर्कं रूपम् ||९|| नाथ: ।२।२।१०॥ आत्मनेपदविषयस्य नाथो व्याप्यं कर्म वा स्यात् । सर्पिषो नाथते, सर्पिर्नाथते । आत्मन इत्येव - पुत्रमुपनाथति पाठाय ||१०|| स्मृत्यर्थ-दयेशः ।२।२।११ ॥ स्मृत्यर्थानां दयेशोश्च व्याप्यं कर्म वा स्यात् । मातुः स्मरति, मातरं स्मरति ; मातुः स्मर्यते, माता स्मर्यते; सर्पिषो दयते, सर्पिर्दयते; लोकानामीष्टे लोकानीष्टे ||११|| कृगः प्रतियत्ने |२|२|१२|| पुनर्यत्नः प्रतियत्नस्तद्वृत्तेः कृगो व्याप्यं कर्म वा स्यात् । एधोदकस्यैधोदकं बोपस्कुरुते ||१२|| रुजार्थस्याऽज्वरि-सन्तापेर्भावे कर्त्तरि |२| २|१३॥ रुजा पीडा, तदर्थस्य ज्वरि - सन्तापिवर्जस्य धातोर्व्याप्यं कर्म वा स्यात्, भावश्चेद्रुजायाः कर्त्ता । चौरस्य चौरं वा रुजति रोगः | अज्वरिसन्तापेरिति किम् ? आद्यूनं ज्वरयति सन्तापयति वा । भाव इति किम् ? मैत्रं रुजति श्लेष्मा ||१३|| जास-नाट - क्राथ- पिषो हिंसायाम् | २|२| १४ || १. वलीवर्दान् मैत्रः खं१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy