________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
[द्वितीय: पाद: ]
क्रियाहेतुः कारकम् ।२।२।१॥ क्रियाया निमित्तं कर्नादि कारकं स्यात् । अन्वर्थाश्रयणाच निमित्तत्वमात्रेण हेत्वादे: कारकसंज्ञा न स्यात् ।।१।।
स्वतन्त्रः कर्ता ।२।२।२॥ क्रियाहेतु: क्रियासिद्धौ स्वप्रधानो य: स कर्ता स्यात् । मैत्रेण कृतः ।।२।।
कर्तुर्व्याप्यं कर्म ।२।२॥३॥ का क्रियया यद्विशेषेणाप्तुमिष्यते तत् कारकं व्याप्यं कर्म च स्यात् । तत् त्रेधा-निर्वर्त्य विकार्यं प्राप्यञ्च । कटं करोति , काष्ठं दहति , ग्रामं याति ॥३॥
वाऽकर्मणामणिकर्ता णौ ।२।२।४॥ अविवक्षितकर्मणां धातूनां णिग: प्राग् य: कर्ता स णिगि सति कर्म वा स्यात् । पचति चैत्रः , पाचयति चैत्रं चैत्रेण वा ॥४||
गति-बोधा-ऽऽहारार्थ-शब्दकर्म-नित्याकर्मणामनीखाद्यदि-हाशब्दाय-क्रन्दाम् ।२।२।५॥
गतिर्देशान्तरप्राप्तिः , शब्द: कर्म क्रिया व्याप्यञ्च येषां ते शब्दकर्माण: , गत्यर्थबोधार्थाहारार्थानां शब्दकर्मणां नित्याकर्मणाञ्च नीखाद्यदिह्वाशब्दायक्रन्दिवर्जानां धातूनामणिकर्ता स णौ सति कर्म स्यात् । गमयति मैत्रं ग्रामम् , बोधयति शिष्यं धर्मम् , भोजयति बटुमोदनम् , जल्पयति मैत्रं द्रव्यम् , अध्यापयति बटुं वेदम् , शाययति मैत्रं चैत्रः । गत्यर्थादीनामिति किम् ? पाचयत्योदनं चैत्रेण मैत्र: । न्यादिवर्जनं किम् ? नाययति भारं चैत्रेण, खादयत्यपूपं मैत्रेण, आदयत्योदनं सुतेन , ह्वाययति चैत्रं मैत्रेण , शब्दाययति बटुं मैत्रेण , क्रन्दयति मैत्रं चैत्रेण ॥५॥
भक्षेहिँसायाम् ।२।२।६॥ भक्षेहिँसार्थस्यैवाणिकर्ता णौ कर्म स्यात् । भक्षयति सस्यं बलीवर्दान् मैत्र: । हिंसायामिति किम् ? भक्षयति पिण्डी शिशुना ॥६।।
१. कारकसंज्ञा खं१ खंमू२ J3 विना नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org