________________
५२
स्वोपज्ञलघुवृत्तिविभूषितं
, पितुः ॥११४।।
अवर्णादश्नोऽन्तो वाऽतुरीङयोः ।२।१११५॥ नावर्जादवर्णात् परस्याऽतु: स्थानेऽन्तो वा स्यात् , ई-योः । तुदन्ती , तुदती कुले स्त्री वा । एवम्-भान्ती , भाती । अवर्णादिति किम् ? अदती । अश्न इति किम् ? लुनती ।।११५।।
श्य-शवः ।२।१।११६॥ श्याच्छवश्च परस्याऽतुरीङ्यो: परयोरन्त इत्यादेश: स्यात् । दीव्यन्ती , पचन्ती ॥६।।
दिव औः सौ ।२।१।११७॥ दिव: सौ परे औः स्यात् । द्यौः ।।११७||
___ उः पदान्तेऽनूत् ।२।१।११८॥ पदान्तस्य दिव उ: स्यात् , अनूत् स तु दीर्घो न स्यात् । धुभ्याम् , सुधु । पदान्त इति किम् ? दिवि । अनूदिति किम् ? धुभवति ।।११८॥
[इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] द्वितीयस्याध्यायस्य प्रथम: पाद: समाप्त: ।।२।१।।
प्रावृड् जातेति हे भूपा ! मा स्म त्यजत काननम् । हरिः शेतेऽत्र न त्वेषो मूलराजमहीपतिः ।।५।।
१. श्लोकोऽयं केवलं पा२ प्रा० बृहद्वृत्तौ च वर्तते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org