________________
श्वन्-युवन्-मघोनो ङी-स्याद्यघुट्स्वरे व उः ।।१।१०६॥ ङयां स्याद्यघुट्स्वरे च श्वनादीनां व उ: स्यात् । शुनी , शुन: । अतियूनी , यून: । मघोनी , मघोनः । ङीस्याद्यघुट्स्वर इति किम् ? शौवनम् , यौवनम् , माघवनम् ।।१०६।।
लुगाऽऽतोऽनापः ।२।१११०७॥ आप्वर्जस्याऽऽतो डीस्याद्यघुट्स्वरे लुक् स्यात् । कीलालप: । हाहे देहि । अनाप इति किम् ? शाला: ।।१०७||
अनोऽस्य ।२।१।१०८॥ ङीस्याद्यघुट्स्वरेऽनोऽस्य लुक् स्यात् । राज्ञी , राज्ञः ।।१०८।।
ई-डौ वा ।२।१११०९॥ ईकारे डौ च परेऽनोऽस्य लुग् वा स्यात् । साम्नी , सामनी । राज्ञि , राजनि ।।१०९।।
. षादि-हन्-धृतराज्ञोऽणि ।२।१।११०॥ षादेरनो हनो धृतराज्ञश्चातोऽणि प्रत्यये लुक् स्यात् । औक्ष्णः , ताक्ष्ण: , भ्रौणघ्नः , धार्तराज्ञः ||११०॥
न व-मन्तसंयोगात् ।२।१११११॥ वान्तान्मान्ताच्च संयोगात्परस्याऽनोऽस्य लुग् न स्यात् । पर्वणा , कर्मणी ॥१११||
हनो ह्रो घ्न ।२।१।११२॥ हन्तेर्हनो घ्न् स्यात् । भ्रूणनी , घ्नन्ति । ह्न इति किम् ? वृत्रहणौ ।।११२।।
लुगस्यादेत्यपदे ।२।१।११३॥ अपदादावकारे एकारे च परेऽस्य लुक् स्यात् । स: , पचन्ति , पचे । अपद इति किम् ? दण्डाग्रम् ।।१३३॥
डित्यन्त्यस्वरादेः ।२।१।११४॥ स्वराणां योऽन्त्यस्वरस्तदादेः शब्दस्य डिति परे लुक् स्यात् । मुनौ , साधौ
१. श्वादीनां खं३ ।। २. घ्नः खं२, ३, बृहद्वृत्तौ च । घ्न J3 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org