________________
स्तुतिः । ]
ऐन्द्रस्तुतिचतुर्विंशतिका
६९
S
चितम् अथवा करेण-हस्तेन चितं खार्जितमित्यर्थः, अयं खल्वात्मन एव दोषो यदनुभवति प्राणी तथाविधं पुराकृतं शिष्टं कर्म । पुनः किं० १ उपचितं - प्रवृद्धम् आजिभिः - सङ्घामैः नानामायासश्वरणंविचित्रकपटसवारो यत्र तत् तथा । पुनः किं० ? ' उदितम् ' उत्थितं यद् 'अलीकं' मिथ्यावचनं तेन रचितं जनितम्, असत्यवचनमेव खल्वेतन्मूलमुक्तम् । यतः - 'असत्यवचनाद् वैरविषादाप्रत्ययादयः । श्रादुष्षन्ति न के दोषाः, कुपध्याद् व्याधयो यथा ॥ " इति ॥ २ ॥ जिनानां सिद्धान्तश्चरणपटु कुर्यान्मम मनो
Sपराभूतिर्लोके शमहितपदानामऽविरतम् । यतः स्याच्चक्रित्वत्रिदशविभुताद्या भवभृतां,
परा भूतिर्लोकेशम हि तपदानामविरतम् ॥ ३ ॥ जिनानामिति ॥ 'जिनानां' भगवतां 'सिद्धान्तः ' समयो मम 'अविरतम्' अविरतिपरिणामयुक्तं 'मनः' चित्तम् 'अविरतं' निर न्तरं 'चरणपटु' विरतिपरिणामधारणक्षमं कुर्यात्, अत्र च यद्यप्यविरतत्वमात्मनो धर्मो न तु मनसः तथापि भावमनस यात्मरूपत्वाद् द्रव्यार्थिकप्राधान्यादविरतं मन इत्युक्तमिति ध्येयम् । सिद्धान्तः किं० ? 'लोके' जगति 'अपराभूतिः' पराभवरहितः | जिनानां किम्भूतानाम् ? ' शमहितपदानाम्' उपशमपध्यस्थानानाम् । पुनः किं० १ लोकेशैः - लोकपालैः महिते -*पूजिते पदे-चरणे येषां तेषाम् । स कः ? 'यतः ' यस्मात् 'भव - मृत' संसारिणां चक्रित्वं - सार्वभौमत्वं त्रिदशविभुता च - इन्द्रत्वं वे आये यस्यास्तादृशी 'परा' प्रकृष्टा 'भूतिः' संपत् स्यात् ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org