________________
४. यशोविजयोपाध्यायविरचिता [वासुपूज्यजिनअर्कोऽपि च सकलग्रहमण्डलेऽधिकरुचिर्भवति । पुनः किं. ? सती-शोभना धीर्यस्य स तथा । लोकं किम्भूतम् ? नास्ति पाता. शा-संसारपतनेच्छा यस्य स तथा तम् , भवभीरुमित्यर्थः । पुनस्त्वं किं कुर्वन् ? 'स्वैः' आत्मीयैः 'गोविलासैः' वाणीविलासैः 'जगति' भुवने 'घनतमः' सान्द्रमज्ञानं 'लुम्पन्' अपनयन , अर्कोऽपि च गोविलासै:-किरणविलासैः घनतमः-शार्वरमन्धकार लुम्पति । लोकं किम्भूतम् ? * दुर्नयैः * ध्वस्तः-बौद्धादिभिर्नाशितः तत्त्वालोकःपरमार्थप्रकाशो यस्य स तथा तम् , अर्कोऽपि हि ध्वस्तालोकं लोकं नयनमुद्राजननी निमीलामपहत्य त्रायत इति श्लेषः । त्वं किं. ? 'पाता' रक्षिता, एतेन रक्षितारं प्रति रक्षाप्रार्थनं नाविचारितरमणीयमिति सूचितम् । पुनः किं० ? शमे रुचिर्यस्य स तथा ॥१॥ लोकानां पूरयन्ती सपदि भगवतां जन्मसंज्ञे गतिमें, हृद्या राजी वनेऽत्राऽभवतुदऽमरसार्थानताऽपातमोहा। साक्षात् किं कल्पवल्लिर्विबुधपरिगता क्रोधमानार्त्तिमायाहृद्या राजीवनेत्रा भवतु दमरसाऽर्थानतापा तमोहा ॥२॥
लोकानामिति ॥सा भगवता' तीर्थकृतां 'राजी' श्रेणिः अत्र' - प्रत्यक्षे 'जन्मसंज्ञे' जनुराह्वये वने 'मे' मम 'गतिः' आधारो भवतु। किम्भूता ? 'हृद्या' मनोज्ञा, पुनः किं ? तोदनं तुत्-पीडा, भवस्यसंसारस्य तुत् भवतुत् , नास्ति भवतुद् यस्याः साऽभवतुत् । पुनः किं० ? अमरसार्थेन-सुरसमूहेन आनता-प्रणता । पुनः किं. ? नास्ति पातः-संसारगर्त्तपतनं मोहः-अज्ञानं च यस्याः सा । किं कुर्वती ? 'लोकानां' जनानां 'सपदि' तत्कालम् 'अर्थान् । मनोवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org