SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ स्तुतिः। ऐन्द्रस्तुतिचतुर्विशतिका । वि-खोके त्यागेहा-दानेच्छा यस्याः सा, नृभक्स्पृहयालुतया यो त्यागेहा वा यस्याः सा* । पुनः किं ? घनाघा-निबिडपापा ये नराः-मनुजास्तैरजिता तेषामप्रत्यक्षेति ॥ ४ ॥ ॥ इति श्रीश्रेयांसजिनस्तुतिविवरणम् ॥ ११ ॥ पद्मोल्लासे पटुत्वं दधदधिकरुचिर्वासुपूज्याऽर्कतुल्यो लोकं सद्धीरपाताशमरुचिरपवित्रासहारिप्रभाऽव । लुम्पन स्वैर्गोविलासैर्जगति घनतमो दुर्नयध्वस्ततत्त्वा लोकं सद्धीर!पाता शमरुचिरपवित्रास! हारिप्रभाव!। पद्मोल्लास इति ॥ हे 'अरुचिरपवित्रासहारिप्रभ !' रुचिराश्च पवित्राश्च रुचिरपवित्राः-स्वमतपवित्रान्तःकरणाः श्रमणाः तान न सहन्त इति तदसहाः ते च ते अरयः-बौद्धादयस्तेषां प्रभा-कान्ति: सा नास्ति यस्मात्तस्यामन्त्रणम् ; प्रकृष्टा भा यस्याऽसौ प्रभः, न सन्ति रुचिरपवित्रासहा अरयो यस्य सः अरुचिरपवित्रासहारिः, अरुचिरपवित्रासहारिश्चासौ प्रभश्चेति कर्मधारयगर्भ वा इदमामत्रणम् ; हे 'सद्धीर !' सतां मध्ये धीरः सँश्चासौ धीरश्चेति वा तस्यामत्रणम् , हे 'अपवित्रास !' अप-गतो वित्रासः-भयं यस्मात् तस्यामत्रणम् , हे 'हारिप्रभाव !' मनोहरानुभाव ! हे वासुपूज्य ! त्वं 'लोकं' भव्यप्राणिनम् 'अब' रक्ष । त्वं किं० ? 'अर्कतुल्यः' सूर्यसदृशः, किं कुर्वन् ? 'पद्मोल्लासे' लक्ष्मीविलासे 'पटुत्वं' निपुणत्वं दधत् , अर्कोऽपि च पद्मोल्लासे-कमलविकासे पटुत्वं बिभर्चि । * पुनः * किम्भूतः ? अधिका-जगदतिशायिनी रुचि:-कान्तिर्यस्य अधिका-अधिकसुखा रुचिः-सम्यग्दृष्टिा यस्य स तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy