SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ यशोविजयोपाध्यायविरचिता [शीतलजिनपुनः कि० ? 'अनीति' नास्ति ईतिर्यस्मात् तत् । पुनः किं ? 'हारि' मनोहारि । वाणी किंभू० ? प्रदत्तो महोदयः-मोक्षो यया सा ॥३॥ जगद्गतिविद्रुमकान्तकान्तिः, करोऽतुलाभं शमऽदम्भवत्याः। ‘ददन्नतानां ज्वलनायुधे ! नः, करोतु लाभं शमदं भवत्याः ॥४॥ ॥ इति श्रीसुविधिजिनस्तुतिः ॥ ९ ॥ जगद्गतिरिति ॥ हे ज्वलनायुधे ! 'भवत्याः' तव 'करः' हस्तः 'न:' अस्माकं 'लाभं कल्याणप्राप्तिं करोतु । लाभं किम्भूतम् ? अतुलानिरुपमा आभा-शोभा यस्मात् तम्। करः किम्भूतः ? जगतां गति:आधारः। पुनः किं ? विद्रुमवत्-प्रवालवत् पाटलत्वेन कान्तामनोज्ञा कान्तिर्यस्य सः । किं कुर्वन् ? 'नतानां' कृतनतीनां पुरुषाणां 'शं' सुखं ददत्, किं० शम् ? 'शमदम्' उपशमप्रदम् , एतेन कुशलानुबन्धित्वमावेदितम् । [ भवत्याः ] कथम्भूतायाः ? 'अदम्भवत्याः' अकपटवत्याः॥४॥ ॥ इति श्रीसुविधिजिनस्तुतिविवरणम् ॥ ९ ॥ जयति शीतलतीर्थपतिर्जने, वसु मती तरणाय महोदधौ । -- १-२ यद्यप्यत्र मूल-टीका-अवचूरिपुस्तकेषु-"उवालोज्ज्वलो विद्रुम०" इत्येव पाठ उपलभ्यते तथाप्यस्माभिष्टीकानुसारेणोभयत्राऽपि "जगदतिर्विद्रुमः" इति पाठ आरत्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy