SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ ॥ श्रीमद्विजयवल्लभसूरिपादपझेभ्यो नमः॥ श्रीमद्यशोविजयोपाध्यायविरचिता ऐन्द्रस्तुतिचतुर्विशतिका। खोपज्ञविवरणयुता। cooooooo ऐन्द्रवृन्दनतं पूर्ण-ज्ञानं सत्यगिरं जिनम् । नत्वा विवरणं कुर्वे, स्तुतीनामर्हतामहम् ॥ १ ॥ ऐन्द्रवातनतो यथार्थवचनः प्रध्वस्तदोषो जगत्, सद्यो गीतमहोदयः शमवतां राज्याऽधिकाराजितः। आद्यस्तीर्थकृतां करोत्विह गुणश्रेणीर्दधन्नाभिभूः, सद्योगीतमहोदयः शमऽवतां राज्याऽधिका राजितः॥१॥ ऐन्द्रेति ॥ 'इह' जगति 'जगत्' विशिष्टभव्यलोकम् 'अववीम्' उपदेशद्वारा रक्षतां तीर्यते संसारसमुद्रोऽनेनेति तीर्थ-प्रवचनं तदाधारत्वात् चतुर्विधः श्रमणसङ्घः तं कुर्वन्तीति तीर्थकृतः-अर्हन्तः तेषां मध्ये 'आद्यः प्रथमः 'नाभिभूः' श्रीनाभिनृपनन्दन ऋषभदेवः सद्यः' तत्कालं 'शं' सुखं करोतु इत्यन्वयः । कथम्भूतः ? ऐन्द्रेणइन्द्रसम्बन्धिना बातेन-समूहन नतः-नमस्कृतः। पुनः किंविशिष्टः १ यथार्थम्-अबाधितं वचनम्-उपदेशो यस्य सः। पुनः किं०१ प्रकर्षण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy