SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलकृते पञ्चसूत्रके - एते च दुःखबहुला उत्कटासातवेदनीयाः, मोहान्धकाराः तदुइयतीवतया, अकुशलानुवन्धिनः प्रकृत्याऽसच्चेष्टाहेतुत्वेन, यत एवमतः अयोग्याः शुद्धधर्मस्य चारित्रलक्षणस्य । योग्यं चैतन्मनुजत्वम् । किंविशिष्टम् ? इत्याहपोतभूतं भवसमुद्रे, तदुत्तारकत्वेन । यत एवमतो युक्तं स्वकार्ये नियोक्तुं धर्मलक्षणे । कथम् ? इत्याह-संवरस्थगितच्छिद्रम् , छिद्राणि प्राणातिपाताविरमणादीनि । तथा ज्ञानकर्णधारमभीक्ष्णं तदुपयोगतः । तपःपवनजवनम् अनशनाद्यासेवनतया । एवं युक्तं स्वकार्ये नियोक्तुम् । किम् ? इत्यत आह-क्षण एष दुर्लभः । क्षणः प्रस्तावः । सर्वकार्योप मातीत एषः । कथम् ? इत्याह-सिद्धिसाधकधर्मसाधकत्वेन हेतुना । 10 उपादेया चैषा जीवानां सिद्धिरेवा, यन्नास्यां सिद्धौ जन्म प्रादुर्भावलक्षणम् । न जरा वयोहानिलक्षणा । न मरणं प्राणत्यागलक्षणम् । नेष्टवियोगः, तदभावात् । नानिष्टसंप्रयोगोऽत एव हेतोः। न क्षुद् बुभुक्षारूपा । न पिपासा उदकेच्छारूपा । न चान्यः कश्चिद्दोषः शीतोष्णादिः । सर्वथाऽपरतन्त्रं जीवावस्थानम् अस्यां सिद्धाविति प्रक्रमः। अशुभरागादिरहित मेतदवस्थानम् । एतदेव विशेष्यते-शान्तं शिवमव्याबामिति । शान्तं शक्तितोऽपि क्रोधाद्यभावेन । शिवं सकलाऽशिवाभावतः । अव्याबाधं निष्क्रियत्वेनेति । २०/- विवरीओ य संसारो इमीए अणवट्ठियसहावो । एत्थ खलु सुही वि असुही, संतमसंतं, सुविणे व सब्वमाउलं ति। 20, ता, अलमेत्थ पडिबंधेणं । करेह मे अणुग्गहं । उज्जमह एयं वोच्छिदित्तए । अहं पि तुम्हाणुमईए साहेमि एयं निविण्णो परिमाणपरिच्छिन्ना असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः । ता एवोत्सर्पिण्यवसर्पिण्यो वनस्पतेर्वनस्पतिकायिकस्यानन्तोत्कृष्टा कायस्थितिर्बोद्धव्या । इदमपि कालतः परिमाणं । क्षेत्रतः पूर्वोक्तप्रकारेणानन्ता लोकाः, असङ्ख्येयाः पुद्गलपरावर्ताः, ते चाबलिकाया असङ्ख्येयतमे भागे यावन्तः समयास्ता25 वत्प्रमाणा वेदितव्याः ।” इति जिनभद्रगणिक्षमाश्रमणविरचितबृहत्संग्रहण्या मलयगिरि सूरिविरचितायां टीकायाम् ॥ १ S. K1. K. विना-सुविणुव्व सव्वमालमालं ति D। सुविणुव्व सव्वमालं ति C.॥ २ अलं एस्थ S.॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy