SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८ तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् । प्रतिपत्तुम् । कथम् ? इत्याह अपरोपतापमिति क्रियाविशेषणम् । किमेतदाश्रीयते ? इत्यहि-परोपतापो हि तत्प्रतिपत्तिविघ्नः, परोपतापो यस्माद्धर्मप्रतिपत्त्यन्तरायः। एतदेवाह-अनुपाय एवैष धर्मप्रतिपत्तौ परोपतापः.। कथम् ? इत्याह-न खल्वकुशलारम्भतो हितम् । अकुशलारम्भश्च धर्मप्रतिपत्तावपि परोपतापः। न चान्यस्तत्र प्रायोऽयं संभवतीति संभविपरिहारार्थमाह-अप्रति- 5 बुद्धौ कथञ्चित् कर्मवैचित्र्यतः, प्रतियोधयेन्मातापितरौ । न तु प्रायो महासंत्त्वस्यैतावप्रतिबुद्धौ भवत इति कथञ्चित् ' इत्याह । उभयलोकसफलं जीवितं 'प्रशस्यते ' इति शेषः । तथा समुदायकृतानि कर्माणि प्रक्रमाच्छुभानि, समुदायफलानीति, अनेन भूयोऽपि योगाक्षेपः । तथा चाह-एवं सुदीर्घोऽवियोगः भवपरम्परया सर्वेषामस्माकमिति प्रक्रमः । अन्यथैवमकरणे 10 एकवृक्षनिवासिशकुनतुल्यमेतच्चेष्टितमिति शेषः । यथोक्तम्१ वासवृक्ष समागम्य विगच्छन्ति यथाऽण्डजाः ।। - नियतं विप्रयोगान्तस्तथा भूतसमागमः ॥ [ ॥ इत्यादि। ९२२ एतदेव स्पष्टयन्नाह-उद्दामो मृत्युः अनिवारितप्रसरः, प्रत्यासन्नश्चाल्पायुष्ट्येन । तथा दुर्लभं मनुजत्वं भवाब्धाविति शेषः । अत एवाह-समुद्रपतित- 15 रत्नलाभतुल्यम् , अतिदुरापमित्यर्थः । कुतः ? इत्याह-अतिप्रभूता अन्ये भवाः पृथिवीकायादिसंबन्धिनः कायस्थित्या । यथोतम् २अस्संखोसप्पिणि-सप्पिणीओ एगिदियाण उ चउण्हं । ता चेव उ अणंता, वणस्सतीए उ बोधव्वा ॥ १ ॥ [बृहत्सं. ३३३] १ सत्त्वावेताव ° Sसं० ॥ २ असंखोसप्पिणि ओसप्पिणीt s. Aमू० ॥ 20 "पुढवाईण भवठि,ई एसा मे वण्णिआ समासेण । एएसिं कायठिई, उड्ढं तु अओ परं वुच्छं ॥३३२॥ व्याख्या-एषाऽनन्तरोदिता भवस्थितिः पृथिव्यादीनां समासेन संक्षेपेण वर्णिता साम्प्रतमतः परमप्रमेतेषामेव पृथिवीकायादीनां कायस्थिति तमेव पृथिवीकायादिकं कायमपरित्यजतामवस्थानरूपां वक्ष्ये ॥३३२।। प्रतिज्ञातमेव निर्वाहयति अस्संखोसप्पिणिसप्पिणीओ एगिदियाण य चउपहं । ता चेव उ अणंता वणस्सईए उ बोधवा ।।३३३। व्याख्या-एकेन्द्रियाणां चतुर्णां पृथिव्यप्तेजोवायुरूपाणां प्रत्येकमुत्कृष्टा कायस्थितिरसङ्ख्येया उत्सपिण्यवसर्पिण्यः, एतच्च कालतः परिमाणम् । एतदेव कालपरिमाणं यदा क्षेत्रतश्चिन्त्यते तदैव-. मवसेयम्-असङ्ख्येयेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे यावान् कालो लगति, तावत्काल 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy