________________
१३
द्वितीयं साधुधर्मपरिभावनासूत्रम् । णमो इमस्सेत्यादि । नम एतस्मै धर्माय अनन्तरोदितरूपाय । नम एतद्धर्मप्रकाशकेभ्योऽहंद्भ्यः । नम एतद्धर्मपाल केभ्यो यतिभ्यः । नम, एतद्धर्मप्ररूपकेभ्यो यतिभ्य एवं । नम एतद्धर्मप्रतिपत्तृभ्यः श्रावकादिभ्यः । इच्छाम्यहमेनं धर्मप्रतिपत्तुम्, अनेनैतत्पक्षपातमाह । सम्यग् मनोवाकाययोगैः, अनेन तु संपूर्णप्रतिपत्तिरूपं प्रणिधिविशेषमाह । भवतु ममैतत् 5 कल्याणम् अधिकृतधर्मप्रतिपत्तिरूपं परमकल्याणानां जिनानामनुभावतः, तदनुग्रहेणेत्यर्थः । सुप्रणिधानमेवं चिन्तयेत् पुनः पुनः। एवं हि स्वाशयादेव तन्निमित्तोऽनुग्रह इति । तथा एतद्धर्मयुक्तानां यतीनामवपातकारी स्यात् , आज्ञाकारीति भावः । प्रधानं मोहच्छेदनमेतत् तदाज्ञाकारित्वम् , तन्मोहच्छेदनयोगनिष्पत्त्यङ्गतयेति हृदयम् । एवं कुशलाभ्यासेन विशुद्धधमानो 10 विशुद्धयमान एतत्सेवक इति प्रक्रमः, भावनयोक्तरूपया, कर्मापगमेन हेतुना, उपैति एतस्य धर्मस्य योग्यताम् । एतदेवाह-तथा संसारविरक्तस्तदोषभावनया, संविग्नो भवति मोक्षार्थी, अमम: ममत्वरहितः, अपरोपतापी परपीडापरिहारी, विशुद्धः ग्रन्थ्यादिभेदेन, विशुद्धधमानभावः शुभकण्डकवृद्धयेति साधुधर्मपरिभावनासूत्रं समाप्तम्, भावतः साधुधर्म- 15 प्राप्त्युपायभूतार्थसूचकं सूत्रं समाप्तम् ।
पञ्चसूत्रकव्याख्यायां द्वितीयसूत्रव्याख्या समाप्ता ॥
PARHI
DOOOG
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org