SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ याकिनीमहत्तराधर्मसुन्धाचार्यप्रवरश्रीहरिभद्रसूरिविरचितव्याख्यासमलङ्कृतं चिरन्तनाचार्यविरचितं पञ्चसूत्रकम्। ॥ ॐ नमो वीतरागाय ॥ प्रणम्य परमात्मानं, महावीरं जिनेश्वरम् । सत्पश्चसूत्रकव्याख्या, समासेन विधीयते ॥१॥ ' आह-किमिदं पञ्चसूत्रकं नाम ? उच्यते-पापप्रतिघातगुणबीजाधानसूत्रादीनि पश्च सूत्राण्येव, तद्यथा-पापप्रतिघातगुणबीजाधानसूत्रम् १, साधुधर्मपरि. भावनासूत्रम् २, प्रव्रज्याग्रहणविधिसूत्रम् ३, प्रव्रज्यापरिपालनासूत्रम् ४, प्रव्रज्याफलसूत्रम् ५ इति । -२ १४. 5 १ अत्रेदमवधेयम्-अस्य सटीकस्य पञ्चसूत्रकस्य संशोधनमस्माभिः अष्ट हस्तलिखितादर्शानवलम्ब्य विहितम् । तेषु चत्वार आदर्शास्तालपत्रात्मकाः, चत्वारस्तु कागदपत्रात्मकाः । तेषां संक्षिप्तः परिचय इत्थम्-- (१) K1=खम्भातनगरे श्रीशान्तिनाथतालपत्रग्रन्थभाण्डागारे विद्यमाना प्रतिः । अस्यां प्रती मूलमात्रं पञ्चसूत्रकं Catalogue of palm-leaf mss. in the Santinatha Jain Bhandara. Cambay अनुसारेण No. 114 मध्ये (११४ तममञ्जूषायां ) ७४ तः ८८ पर्यन्तेषु १५ पत्रेषु वर्तते । ईसवीयत्रयोदशशतकस्य पूर्वार्ध ग्रन्थोऽयं लिखित इति लिप्याद्यनमारेण लेखनसमयविषये ग्रन्थसूचिकारिणामभिप्रायः । 10 15 (२) Kखम्भातनगरे श्रीशान्तिनाथतालपत्रग्रन्थभाण्डागारे विद्यमाना प्रतिः । अस्यां प्रतौ मूलमात्रं पञ्चसूत्रकम् उपरिनिर्दिष्टCatalogue अनुसारेण No.89 मध्ये (८९ तममञ्जूषायां) १-१६ पत्रेषु ग्रन्थोऽयं वर्तते । ईसवीयत्रयोदशशतकस्य उत्तरार्धे ग्रन्थोऽयं लिखित इति लिप्याद्यनुसारेण लेखनसमयविचारकाणां मतम् । (३) S=पाटणनगरे 'संघवीपाडा'सत्कतालपत्रग्रन्थभाण्डागारे विद्यमाना प्रतिः, सम्प्रति सम्पूर्णोऽप्ययं तालपत्रग्रन्थसंग्रहः पाटणनगरे एव श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे वर्तते । अस्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy