________________
पञ्चमं परिशिष्टम् ।
१११
"किं कारणं ब्रह्म कुतः स्म जाताः जीवाम केन क्व च सम्प्रतिष्ठाः । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ १ ॥ कालः स्वभावो नियतियेदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् ।। संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ॥ २ ॥ ते ध्यानयोगानुगता अपश्यन् देवात्मशक्ति स्वगुणैर्निगूढाम् ।
यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥ ३ ॥" इति श्वेताश्वतरोपनिषदि प्रथमेऽध्याये । पृ० ७ पं० ६ चउसरणगमणं......। तुला--
"चउसरणगमण दुक्कडगरहा सुकडाणुमोयणा चेव ।
एस गणो अणवरयं कायध्वो कुसलहेउ त्ति ॥५०|| चतुःशरणगमनम् अर्हत्-सिद्ध-साधु-केवलिप्रशप्तधर्मशरणगमनम् , आचार्योपाध्याययोः साधुष्वेवान्तर्भावात् , केवलिप्रज्ञप्तधर्मस्य चानादित्वेन पृथगुपादानात् । न ह्यतश्चतुष्टयादन्यच्छरण्यमस्ति, गुणाधिकस्य शरण्यत्वात् , गुणाधिकत्वेनैव ततो रक्षोपपत्तेः, रक्षा चेह तत्तस्वभावतया एवाभिध्यानतः क्लिष्टकर्मविगमेन शान्तिरिति ।
तथा दुष्कृतगर्दा, अनादावपि संसारेऽनाभोगादिना प्रकारेण कायादिभिः करणभूतैः यानि दुष्कृतानि अर्हत्-सिद्धादिसमक्षं संवेगापन्नेन चेतसा तेषां जुगुप्सेत्यर्थः । भवत्यतस्तदेयत्वभावनया अनुबन्धादिव्यवच्छेदः शोभनश्चायं महानर्थनिवृत्तेरिति ।।
तथा सुकृतानुमोदना चैव, सकलसत्वसङ्गत मोक्षानुकूलं यदनुष्ठानम् अनेकभेदभिन्नम् तस्य महता पक्षपातेन स्वभावचिन्तासारा प्रशंसेति भावः, तदुपादेयतायां तद्बहुमानविशेषे नियोगत इयम् , नान्यथा । एवं च महदेतत् कल्याणाङ्गं वनच्छेतृ-बलदेव-मृगोदाहरणेन सुप्रसिद्धमेवेति ।
एष गण: चतुःशरणगमनादिः सर्व एव अनवरतं प्रायः सर्वकालमेव कर्तव्यः अनुष्ठेयः, भावनीय इति यावत् , कुशलहेतुः अपायपरिहारेण कल्याणहेतुरिति कृत्वा । तथा च महती गम्भीग चास्य कुशलहेतुता, भावसारतया तत्त्वमार्गप्रवेशात् । परिभावनीयमेतदचिन्त्यचिन्तामणिकल्पं भावधर्मस्थानम् । इति गाथार्थः ॥५०॥ इति आचार्यश्रीहरिभद्रसूरिविरचिते स्वोपज्ञटीकासहिते योगशतके ।।
"स्वकृतं दुष्कृतं गर्हन् सुकृतं चानुमोदयन् । नाथ त्वचरणौ यामि शरणं शरणोज्झितः ॥१॥ मनोवाक्कायजे पापे कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूयादपुनःक्रिययान्वितम् ॥२॥ यत् कृतं सुकृत किश्चिद् रत्नत्रितयगोचरम् । तत् सर्वमनुमन्ये ऽहं मार्गमात्रानुसार्यपि ॥३॥ सर्वेषामहदादीनां यो योऽर्हत्त्वादिको गुणः । अनुमोदयामि तं तं सर्व तेषां महात्मनाम् ॥४॥ त्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनस्तान् मुनीन् । त्वच्छासनं च शरणं प्रतिपन्नोऽस्मि भावतः ॥५॥ क्षमयामि सर्वान् सत्त्वान् सर्वे क्षाम्यन्तु ते मयि । मैव्यस्तु तेषु सर्वेषु त्वदेकशरणस्य मे ॥६॥ एकोऽहं नास्ति मे कश्चिद् न चाहमपि कस्यचित् । त्वदंहिशरणस्थस्य मम दैन्यं न किञ्चन ॥७॥
यावन्नाप्नोमि पदवीं परां त्वदनुभाव जाम् । तावन्मयि शरण्यत्वं मा मुञ्च शरणं श्रिते ॥८॥" इति आचार्यश्रीहेमचन्द्रसूरिविरचिते वीतरागस्तोत्रे सप्तदशे प्रकाशे ।।
पृ० १७ पं० १ दया ..। "दया भूतेषु वैराग्यं विधिवद् गुरुपूजनम् । विशुद्धा शीलवृत्तिश्च पुण्यं पुण्यानुबन्ध्यदः ॥८॥” इति आचार्यश्रीहरिभद्रसूरिविरचिते चतुर्विंशतितमेऽष्टके ।
पृ० ३५ पं० १२ वासवृक्ष...। श्लोकोऽयम् अश्वघोषविरचिते बुद्धचरिते महाकाव्ये षष्ठे सर्गे षट्चत्वारिंशत्तमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org