________________
ܘ$$
पञ्चमं परिशिष्टम् ।
तदाधारश्च सङ्घः, निराधारस्य प्रवचनस्याभावात् , तत्करणशीलस्तीर्थकरः, "हेतुतच्छीलानुलोमेष्वशब्दे"त्यादिना टः, तं नत्वा । कस्य पुनस्तीर्थस्य भगवान् कतैत्यत आह-'इमस्स तित्थस्स' अस्य ऐदयुगीनजनानां साक्षादुपकारितया प्रत्यक्षीभूतस्य तीर्थस्य पूर्वव्यावर्णितशब्दार्थस्य । ननु प्रेक्षावतां प्रवृत्तिः फलवत्तया व्याप्ता, अन्यथा प्रेक्षावत्ताक्षतिप्रसङ्गात् , फलं चेदसौ तीर्थकरणादपेक्षते व्यक्तमवीतरागत्वप्रसङ्ग इत्यारेकानिराकरणार्थमिदमाचष्टे'अणुवगियपरहियरयं' अनुपकृतपरहितरतम् , योऽनुपकृत एव सन् परस्मै यत् हितं तस्मिन् कर्त्तव्यतया रत आसक्तः सकलतियनरामरगणसाधारण्या वाण्या तदुपायप्रदर्शनेन सोऽनुपकृतपरहितरतस्तम् । नत्वेति योगः । अनुपकृतत्वाविशेषाच्च सर्वेष्वपि जन्तुष्वविशेषेण परहितकरणे भगवतः प्रवृत्तिरिति न पूर्वोक्तदोषावकाशः। ननु च यद्यसावुपकार्यरनुपकृतः स्वयं चाशेषरागादिदोषविप्रमोषोपेतस्ततः कथं परहितसम्पादनार्थमेष प्रवर्तते, प्रयोजनाभावात् ? इत्याशङ्काशेषमपाचिकोषुरिदमाह-सुहभावज्जियांतत्थयरनामकम्मस्स सुहविवागाउ त्ति, अहेंदादिवात्सल्यप्रभृतिलक्षणेन शुभेन भावेन-अध्यवसायेन यत् अर्जितं तीर्थकरनामकर्म तस्य यः शुभो विपाक उदयदानाभिमुख्यं तस्मादनुपकृतपरहितरतम् । एतदुक्तं भवति-अर्हद्वात्सल्यादिनिमित्ततीर्थकरनामकर्मोदयसामर्थ्यात् तत्स्वभावतया सवितेव प्रकाशमुपकार्यकृतोपकारानपेक्षः शास्त्रार्थमातनोति, ततो न यथोक्तदोषप्रसङ्ग इति । ननु यो वीतरागत्वादिगुणकलापयुक्तः सोऽवश्य तीर्थकर एवेति नार्थोऽनेन विशेषणेन, न, गणभृतां समुत्पन्न केवलज्योतिषां सकलस्यापि विशेषणकलापस्य घटनात् , अतस्तद्यवच्छेदाथ तीर्थकरग्रहणम् । यद्येवं ततस्तीर्थकरमित्येतावदेवोच्यतामलं वीतरागादिग्रहणेन, उच्यते, इह सरिदादीनां विषमस्थानेषु ये सुखावताराय तीर्थकरणशीलास्तेऽपि लोके तीर्थकरा उच्च्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां संप्रत्यय इति तदपनोदाय वीतरागादेब्रहणम् । कं पुनरेवंभूतं नत्वेत्यतो विशेष्यमाह-महावीरमिति 'ईर गतिप्रेरणयो 'रित्यस्य विपूर्वस्य विशेषेण ईरयति-प्रेरयति पिनाशयति कर्म याति च शिवमिति वीरः, महांश्वासौ वीरश्च महावीरस्तं नत्वा । ननु यो महावीर: स वीतरागत्वादिगुणकलापोपेत एवेत्यपार्थकं वीतरागाद्युपादानम् , न, नाममहावीरादिभेदव्युदासकारितया अस्य सफरत्वात् । एवं धादिसंयोगा. पेक्षयाऽपि विचित्रनयमताभिशेन यथाशक्ति विशेषणसाफल्यं वाच्यमित्यलं प्रसङ्गेन ॥१-२॥" इति धर्मसंग्रहणेः आचार्य श्रीमलयगिरिसूरिविरवितायां टीकायाम् , पृ० २-४॥ पृ० ७ पं० ३ काल-स्वभाव-नियति-पुरुषकारणपरिप्रहः । तुला
"कालो सहाव णियई पुष्वकयं पुरिसकारणेगंता । मिच्छत्तं ते चेवा(व) समासओ होंति सम्मत्तं ॥" [सन्मति० ३।५३]
काल-स्वभाव-नियति-पूर्वकृत पुरुषकारणरूपा एकान्ताः सर्वेऽपि एकका मिथ्यात्वम् । त एव समुदिताः परस्पराजहदवृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते इति तात्पर्यार्थः” इति आचार्यश्रीअभयदेवसरिविरचितायां सन्मतिवृत्तौ ।
"कालो सहाव णियई पुवकयं पुरिसकारणेगंता । मिच्छतं ते चेव उ समासओ होंति सम्मत्तं ॥३॥५३॥
कालः...स्वभावः...नियतिः...पूर्वकृतं कर्माख्यं...पुरिसकारण पुरुषकारणं ब्रह्माख्यपुरुषोऽसाधारणहेतुस्वेन...इत्येवम् एगंता मिच्छत्तं एकान्ता मिथ्यात्वम् । ते चेव उ समासओ होन्ति सम्मत्तं त एव तु समासतो भवन्ति सम्यक्त्वम् ।” इति आचार्यश्रीदर्शनसरिविरचितायां सन्मतेर्वृत्तौ ।
“काल-स्वभाव नियति-पूर्वकृत पुरुषकारणरूया एकान्ताः सर्वेऽप्येकका मिथ्यात्वम् , त एव समुदिताः परस्परावजवृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्त इति गावातात्पर्यार्थः' इति आचार्यश्रीमुनिचन्द्रसूरिविरचितायाम् उपदेशपदवृत्तौ पृ० १४० A ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org