________________
10
आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलते पञ्चसूत्रके
एतद् ज्ञानमित्युच्यते यदेवमिष्टवस्तुतत्वनिरूपकम् । एतस्मिन् शुभयोगसिद्धिः। एतस्मिन् ज्ञाने सति शुभव्यापारनिष्पत्तिः लोकद्वयेऽपीष्टप्रवृत्तौ । किंविशिष्टा ? इत्याह-उचितप्रतिपत्तिप्रधाना, संज्ञाना(सज्ज्ञान ?)लोचनेन तत्तदनुबन्धेक्षणात् । न ज्ञस्तदारभते यद्विनाशयति । अत एवाहअत्र भावः प्रवर्तकः प्रस्तुतप्रवृत्तौ सदन्तःकरणलक्षणः, न मोह इति । अत एवाह-प्रायो विघ्नो न विद्यते अनाधिकृतप्रवृत्तौ, सदुपाययोगादित्यर्थः। एतद्वीजमेवाह-निरनुबन्धाशुभकर्मभावेन, नानीदृश इत्थं प्रवर्तते इति हृदयम् , सानुबन्धाशुभकर्मणः सम्यक् प्रवज्याऽयोगात् ।
अत एवाह-आक्षिप्ताः स्वीकृता एवैते योगाः सुप्रवज्याव्यापाराः । कुतः ? इत्याह-भावाराधनातः तथा, जन्मान्तरे तबहुमानादिप्रकारेण । ततः किम् ? इत्याह-तत आक्षेपात् सम्यक् प्रवर्तते, नियमनिष्पादकत्वेन । ततः किम् ? इत्याह-निष्पादयत्यनाकुलः सन् इष्टम् । एवमुक्तेन प्रकारेण क्रिया सुक्रिया भवति, सम्यग्ज्ञानादौचित्यारब्धेत्यर्थः । इयमेव विशेष्यते-एकान्तनिष्कलङ्का, निरतिचारतया । निष्कलङ्कार्थसाधिका, मोक्षसाधिकेत्यर्थः । यतस्तथा शुभानुबन्धा अव्यवच्छेदेनोत्तरोत्तरयोगसिद्धथा। ततः शुभानुबन्धायाः सुक्रियायाः सकाशात् स प्रस्तुतः प्रवजितः साधयति निष्पादयति परं प्रधानं परार्थ सत्यार्थ सम्यगविपरीतम् । तत्कुशलः परार्थसाधनकुशलः, सदा सर्वकालम् । कथम् ? इत्याह-तैस्तैः प्रकारैर्वीजबीजन्यासादिभिः सानुबन्धं परार्थम् । महोदयोऽसौ पैरपरार्थसाधनात् । एतदेवाह-बीजबीजादिस्थापनेन, बीजं सम्यक्त्वम् , बीजबीजं तदाक्षेपकशासनप्रशंसादि, एतन्यासेन । किंविशिष्टोऽयम् ? इत्याह-कर्तवीर्यादियुक्तः, परं परार्थ प्रति । अवन्ध्यशुभचेष्टः, एतमेव प्रति । समन्तभद्रः, सर्वाकारसंपन्नतया । सुप्रणिधानादिहेतुः, क्वचिदप्यन्यूनतया। मोहतिमिरदीपः, तदपनयनस्वभावतया। रागामयवैद्यः, तच्चिकित्सासमर्थयोगेन । द्वेषानलजलनिधिः, तद्विध्यापनशक्तिभावात् । संवेगसिद्धिकरो भवति, तद्धेतुयोगेन । अचिन्त्यचिन्तामणिकल्पः, सत्त्वसुखहेतुतया। __सोऽधिकृतः प्रबजितः एवमुक्तनीत्या परपरार्थसाधकः धर्मदानेन । १ अत एवाह S. विना नास्ति ॥ २ सु° नास्ति S. ॥ ३ परंपरार्थ ° S. ॥ ४ एनमेव S. ॥ ५ ० प्यनून S. ॥६ धर्म दानेन S.||
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org