SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्री ऋषभदेवस्वामिने नमः । श्री शडेश्वरपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मभ्यो नमः पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः । प्राक्कथनम् परमकृपालोः परमात्मनः परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री भुवनविजयजीमहाराजानां च परमकृपया आचार्यप्रवरश्रीसिंहसूरिगणिवादिक्षमाश्रमणविरचितया न्यायागमानुसारिण्या टीकया विभूषितस्य आचार्यभगवच्छीमल्लवादिक्षमाश्रमणविरचितस्य द्वादशारस्य नयचक्रस्य अन्तिमं तृतीयं विभागं दर्शनशास्त्ररसिकानां विदुषां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । अस्य नयचक्रस्य संशोधनं स्व. आगमप्रभाकरपूज्यपादमुनिराजश्री पुण्यविजयजी महाराजानां प्रेरणया विक्रमसंवत् २००२ तम वर्षस्य प्रारम्भेऽस्माभिः स्वीकृतम् । संशोधनोपयोगिसामग्याः संचये कियाँश्चित् समयो व्यतीतः, पञ्चषैर्वर्मुद्रणयोग्या प्रतिकृतिः (Press-copy) केनचिदंशेन सम्पन्ना, ततः परं मुद्रणालये मुद्रणेऽपि समयो व्यतीतः । वैक्रमे २०२२ तमे वर्षे प्रथमो विभाग: प्रकाशितः । अस्मिन् नयचक्रे द्वादश अरा: नयचक्रतुम्बं (=स्याद्वादनाभिः) च इति त्रयोदश मुख्यविभागाः; तेषु आद्यमरचतुष्टयं प्रथमे विभागे [ पृ. १-३७५ ] प्रकाशितम् । ततः परं वैक्रमे २०३३ तमे वर्षे द्वितीयो विभागः प्रकाशितः, तत्र च मध्यममरचतुष्टयं [पृ. ३७७-७३७] मुद्रितम् । सम्प्रति तृतीयो विभाग: प्रकाश्यते, अत्र च अन्तिममरचतुष्टयं [पृ. ७३८-८५४] द्वादशारान्तरं [पृ. ८५५-८७३] नयचक्रतुम्बं [पृ. ८७४-८८७] च मुद्रितम् । प्रकाशनविलम्बे कारणानि तेषु तेषु विभागेषु प्रस्तावनायामस्माभिनिर्दिष्टान्येव । नयचक्रस्य संशोधने ये ये हस्तलिखिता नयचक्रस्य आदर्शा अस्माभिरुपयुक्तास्तेषां स्वरूपं प्रथमविभागे प्रस्तावनायां निर्दिष्टमेव । भा. य. प्रती एव अत्र मुख्य। भावनगरे 'डोसाभाई अभेचंदनी पेढी' सत्के जैनग्रन्थभाण्डागारे विद्यमानः आचार्यश्री धर्ममूर्तिसूरिभिर्विक्रमसंवत् १६५० प्राये वर्षे लेखित आदर्शो भा. संज्ञः, वाचकवरश्रीयशोविजयोपाध्यायैरनेकेषां मुनीनां साहाय्येन वैक्रमे १७२० तमे वर्षेऽणहिलपुरफ्तने लिखितो नयचक्रस्यादर्शो य. संज्ञः । अनयोरादर्शयोः साहाय्येनैव अस्य संशोधने किमपि साफल्यमस्माभिर्लब्धम् । भा. प्रतौ यत्र पाठः पतितोऽशुद्धो वा तत्र य.' प्रतौ १ दृश्यतां पृ. १० पं. १५ टि. ७, पृ. २८ पं. ११ टि. ६, पृ. २७ पं. ७, पृ. ८८ पं. १६ टि. ८, पृ. १८३ टि. १, पृ. २२२ टि. ३, पृ. ३३० टि. ९, पृ. ३६१ टि. ६, पृ. ३७८ टि. ६, पृ. ४०५ टि. ४, पृ. ४०६ टि. १, पृ. ४७० टि. ४, पृ. ७६७ टि. ३, पृ. ७७० टि. १, पृ. ७९५ टि. ३, पृ. ७९९ टि. ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy