SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ॥ श्री सिद्धाचलमण्डन-ऋषभदेवस्वामिने नमः ॥ प्रभोः करकमलयोः कुसुमाञ्जलिः प्रातः स्मरणीयानां परमोपकारिणां परमपूज्यानां गृहावस्थायां पितृचरणानां सम्प्रति श्रमणावस्थायां श्री सद्गुरुदेवानां मुनिराजश्री १००८ भुवनविजयजीमहाराजानाम्, तथा परमोपकारिण्याः परमवत्सलायाः परमपूज्यायाः गृहावस्थायां जनन्याः सम्प्रति श्रमण्याः साध्वीजीश्री मनोहरश्रियः इत्येवमनन्तोपकारिणोर्माता-पित्रोः श्रेयसे परमकृपालोः परमात्मनः श्री सिद्धगिरिमण्डनस्य भगवतः श्री ऋषभदेवस्वामिनः करकमलयोः कुसुमाञ्जलिरूपमेतं ग्रन्थं निधाय, इत्थं चाद्य श्री अजितनाथप्रभोः जन्मकल्याणकदिने, पूज्यपादगुरुदेवस्य स्वर्गवासतिथौ च माघशुक्लाष्टम्यां प्रभुं पूजयित्वा परममानन्दं कृतार्थतां धन्यतां चानुभवामि - शिशुः जम्बूविजयः विक्रमसंवत् २०४४, माघशुक्लाष्टमी, श्री सिद्धाचलतीर्थम्, श्री सिद्धक्षेत्रम् [पादलिप्तपुरम् ] इसवीयो दिनाङ्कः २६-१-८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy