SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्रास्ताविकं किञ्चित् ग्रन्थप्रदानेन उपयोगिविविधसूचनाभिर्वा अत्र बहु साहायक विहितम् । निर्णयसागर. मुद्रणालयस्य पण्डितैः 'पं. नारायण राम आचार्य' एभिश्च शास्त्रिमहोदयैरस्य मुद्रणादौ महता परिश्रमेण प्रभूत प्रभूत साहायकमनुष्ठितम् ।। - गुरुदेवस्तुतिरूपं श्लोकनवकं न्यायविशारदन्यायतीर्थस्व०मुनिराजश्रीन्यायविजयजी महोदयः संस्कृते विरचितम् । पते सर्वेऽपि महानुभावा धन्यवादमर्हन्ति । गुरुदेवचरणेषु प्रणिपातः सम्पूर्णस्पास्य ग्रन्थस्य संशोधने सम्पादने च प्राणरूपा सर्वरूपेण सहायकाश्च मम गुरुदेवाः पितृचरणाश्च मुनिराजश्री१००८ भुवनविज्यजीमहाराजाः । परमपूज्यानां परमाराध्यानां प्रातःस्मरणीयानाममीषां गुरुदेवानां कृपया साहाय्येनैव च कार्य मिदं सम्पन्नमिति भूयो भूयो गुरुदेवानां चरणेषु प्रणिपात करोमि । प्रभुपूजनम् अनन्तोपकारिणः शासनपतेः परमाराध्यस्य श्रमणस्य भगवतो महावीरस्य चरणेषु अनन्तशो वन्दनापूर्वकं २५०१ वीरनिर्वाणसंवत्सरे-ग्रन्थमिमम समर्पयन् परमं हर्षमनुभवामि । वीरनिर्वाणसंवत् २५०१ विक्रमसंवत् २०३१ वैशाखशुक्लदशमी प्रभुश्री महावीरस्वामिकेवलज्ञानकल्याणकदिनम् । भद्रेश्वरतीर्थम् (कच्छ) -इत्यावेदयति पूज्यपादाचार्य महाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टशिष्यपूज्यपादाचार्य महाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादगुरुदेवमुनिराजश्रीभुवन विजयान्तेवासी मुनिजम्बूविजयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001109
Book TitleDvadasharam Naychakram Part 2 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1976
Total Pages403
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy