SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ हाँ अर्ह श्रीशङ्ख वरपार्श्वनाथाय नमः || आचार्य महाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मेभ्यो नमः । आचार्य महाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मेभ्यो नमः । सद्गुरुदेवमुनिराज श्री भुवनविजयजीपादपद्मेभ्यो नमः | प्रास्ताविकं किञ्चित् परमकृपालाः परमात्मनः सद्गुरुदेवस्य च कृपया न्यायागमानुसारिण्या वृत्त्या विभूषितस्य आचार्य श्रीमल्लवादिविरचितस्य द्वादशारस्य नयचक्रस्य उभयम् ५ उभयविधिः ६ उभयेोभयम् ७ उभयनियमः ८ इत्यरचतुष्टयात्मकोऽयं द्वितीया विभागो विदुषां पुरतः प्रकाश्यते । आदिममरचतुष्टयं बहोः कालात् पूर्व प्रकाशितम् । मध्यममिदमरचतुष्टयमपि बहोः कालात् प्रागेव मुद्रितम्, तथापि द्वितीयविभागे सम्पूर्ण नयचक्रम् अवशिष्टानष्टावप्यरान्प्रकाशयितुमस्माकं समीहाऽऽसीत्, प्रथमे विभागे प्राक्कथनेऽपि तथैवास्माभिरावेदितम् किन्तु विहितेष्वपि बहुतरेषु प्रयत्नेषु विविधकारणवशादन्तिमस्यारचतुष्टयस्य मुद्रणमद्याबधि नैव सम्पन्नम्, अतो द्राघीयसा विलम्बेन मध्यमारचतुष्टयात्मक एव द्वितीया विभागः सम्प्रति प्रकटीक्रियते । नयचक्रस्य स्वरूपे, भगवतां ग्रन्थकृतां मल्लवादिसूरीणां वृत्तिकृतां सिंहसूरिगणिवादिक्षमाभ्रमणानां च विषये, पतद्ग्रन्थसम्पादनशैल्याश्च विषये यद् वक्तव्यं तत् प्रथमविभागे प्राक्कथने विस्तरेणावेदितमेव । एतद्ग्रन्थसम्पादनाधारभूतानां हस्तलिखितादर्शानां स्वरूपमपि तत्रैब विस्तरेण द्रष्टव्यम् | संक्षिप्तमेव किञ्चित् प्रास्ताविकमत्र लिख्यते । अरचतुष्टयस्य विषयः " ast 'सर्व' द्रव्यमात्रम् ' इति यदुक्त तत् पञ्चमेऽरे निरस्यते, न केवल द्रव्यमेव भावः, क्रियाऽपि भाव, उभयेोरपि भवनाविशेषात् यथा द्रव्यं भवति तथा क्रियापि भवति' इति पञ्चमेऽर उभयनयमत' वैयाकरणसिद्धान्त मनसिकृत्य निरूपित ग्रन्थकृता । अयं नया नैगमदेशः । Jain Education International . " षष्ठेऽरे उभयमयमत मिराकृस्य विधि-नियमयोः सामान्य-विशेषयोः विधिः वैशेषिकमतानुसारेण वर्णितः । अयं नया नैगमैकदेशः । इमे बहू द्रव्यास्तिकनयाः । अतः परं षण्णां पर्य' वास्तिकनयानां प्रारम्भः । For Private & Personal Use Only www.jainelibrary.org
SR No.001109
Book TitleDvadasharam Naychakram Part 2 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1976
Total Pages403
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy