________________
दृष्टान्तपरिच्छेदः]
भोटपरिशिष्टे प्रमाणसमुच्चयः। म जैस्' सु ऽग्रो' ब' म्ञम् ल' तेग्प जिद् ॥ म ब्यस्' फ्यिर् दङ् ऽजिग्' पडि' फ्यिर् ॥ ऽदि निऽब्रस्' जिद्म ' बोंदु' प॥ऽजुग' म' ख्यब मि' ऽदोद्' ऽग्युर् ॥ ४॥...... रङ्' ल' डेस्' शिन्' गशन् दग्' ल ॥ डेस्' पब्स्क्ये द्' पर' ऽदोद्प ' यिस् ॥ फ्योग्स् छोस्' जिद्' दङ्' ऽब्रेल् प दङ् ॥ ब्गुब्' ब्य' बोंद्' ब्य' ग्शन् दग् स्पङ् ॥६॥5Ps त्रिरूपो हेतुरित्युक्तं पक्षधर्मे तु संस्थितः।
रुढे रूँपद्वयं शेष दृष्टान्तेन प्रदर्श्यते ॥ ४॥१॥ *तर्कशास्त्रेषु प्रयोगे पक्षधर्ममात्रमेव हेतुरिति रूढम् । यथा कृतकत्वादित्यत्र 'शब्दस्य' इति प्रतीयते । शेष लक्षणद्वयं प्रयोगेऽनुक्तमिति तदर्थ दृष्टान्तो वक्तव्यः ।
*साध्येनानुगमो हेतोः साध्याभावे च नास्तिता।
ख्याप्यते यत्र दृष्टान्तः स साधयेतरो द्विधा ॥ ४२ ॥* १ दृश्यतां टिपृ० ७५ टि० २। वादन्यायवृत्ति. पृ० ९२। “अत्र तादात्म्य-तदुत्पत्तिलक्षणसम्बन्धकथनाय हेतोः सजातीयविजातीययोः सत्वासत्त्वे दृष्टान्तप्रयोगेग वक्तव्ये। तयोश्च हेतुलक्षणादेव सिद्धिः । तस्माद् दृष्टान्तलक्षणं निरर्थकमित्यत आह-त्रिरूपो हेतुरित्यादि । यद्यपि त्रिरूपो हेतुरित्युक्तं तथापि प्रयोगकाले पक्षधर्म संस्थितः। [निडिस्प Vr. =] तुशब्दोऽवधारणे, पक्षधर्ममात्रस्वरूपेण स्थितो हेतुवचनेन दयते। पक्षधर्ममात्रमुच्यत इत्यर्थः । कुत इत्याह-रूढेरिति । किं पुनस्तया रूढ्या क्रियत इत्याह - तर्कशास्त्रेष्वित्यादि । निमित्तार्थे सप्तमी। [रिग्स् फ्र' मो' ल सोग्स् प नम्स्' सु फ्योगस छोस्' चम्' ग्तन् छिगूस्' सु ब्शद् दे VT=] न्यायसूत्रादिषु पक्षधर्ममात्रं हेतावुक्तम् । तस्मात् तद्वारेण लोकप्रयोगेऽपि पक्षधर्ममात्रं [गतन् ग्स् िजिद् रब् तु ग्रग्स' सो VT. = ] हेतुत्वेन प्रसिद्धम् । एवं तत्र हेतुवचनमुक्तम् ।... [पृ० २१२ B]."तामेव रूढिं दर्शयन्नाह-यथेत्यादि । 'शब्दोऽनित्यः कृतकत्वात्' इत्युक्ते कृतकत्वमात्र(मत्र) हेतुः पक्षीकृतशब्दस्य धर्म इत्येतन्मात्रं प्रतीयते इत्यर्थः। शेषं लक्षणद्वयं प्रयोगेऽनुक्तमिति, 'कृतकत्वात्' इत्यनेनैव सपक्षविपक्षयोरस्य सत्त्वासत्त्वे नोक्ते । तस्मात् तदर्थ दृष्टान्तो वक्तव्य इति 'दृष्टान्तेन प्रदर्श्यते' इति च वाच्यवाचकयोरभेदोपचारेण] एवमुक्तम् । अन्यथा 'यत्र इति अभिधेये' इति वचनात् अर्थस्यैव दृष्टान्तत्वम् , अर्थेन च प्रदर्शनं नास्तीति अयुक्तं स्यात् । तस्मादभेदोपचाराद् दृष्टान्ताभिधानरूपं वचनमत्र दृष्टान्तशब्देनोच्यते [पृ० २१३ A]!"-विशाला० । २ दृश्यतां टिपृ. ७५ टि० २। ३ 'रूढेः' इति पञ्चम्यन्तं पदम् । 'रूढेः पक्षधर्मे तु संस्थितः' इत्यन्वयः। ४ तत्त्वसंग्रहपञ्जिका. पृ. ४१९/५ 'तर्कशास्त्रेषु प्रयोगे हेतुवचनेन पक्षधर्मत्वमात्रं दय॑ते, यथा कृतकत्वादित्यत्र 'शब्दस्य' इति प्रतीयते' इत्यपि PSY* अनुसारेण संस्कृतेऽनुवादः स्यादत्र । ** Psv.' अनुसारेणायं संस्कृतेऽनुवादः। यद्यपि क्वचित् PIV' अपेक्षया PSe1 समीचीनतरः । तथापि Psv' अपेक्षया Psv' एव बहुषु स्थानेषु समीचीनतर इत्यस्माकमनुभव इति ध्येयम् । Psvi मध्ये त्वत्र किञ्चिदसंगतो भोटभाषानुवादः प्रतीयते, तदनुसारेण तु 'तर्कशास्त्रेषु पक्षधर्मत्वमात्रस्य हेतोः प्रयोग इति प्रसिद्धम् । यथा इदं कृतकत्वादिति 'शब्दोऽनित्यः' गम्यते' इत्यनुवादः संस्कृते स्यात् । ६ 'दृष्टान्त उच्यते' इत्यपि पाठः स्यादत्र । ७ * * दृश्यतां टिपृ० ७५ टि० ५।दशवैकालिकसूत्रहारिभद्रीवृत्ति. पृ० ३४ B । न्यायमुख. ॥ ११ ॥ “साध्येनानुगमो हेतोरिति, साध्यशब्दोऽत्र जिज्ञासितधर्ममात्रे वर्तते । अनुगमो हेतोरन्वयः। यत्र हेतो वस्तत्र साध्यस्य भाव एव, न सहभावमात्रम्। साध्येनैव हेतोः, न हेतुना साध्यस्य । साध्याभावे नास्तिता साध्याभावे एव हेतो स्तिता, न हेत्वभावे साध्यस्य ।.........."नास्तिता इति 'नास्ति'शब्दोऽयं वाक्यरूपं शब्दान्तरमभावप्रतिपादकं द्रष्टव्यम् । स साधयेतर इति, साधर्म्यदृष्टान्तो वैधर्म्यदृष्टान्तश्चेति कुब्जखजादिवद् विशेषणसमासः। अथवा साधर्येण इतरेण च सहित इति ससाधयेतर इति बहुव्रीहिः । अस्मिन् व्याख्याने 'सः' इति सर्वनामपदमनुक्तमपि [पृ० २१३ A] यत्तदोनित्यसम्बन्धाद् लभ्यते। सर्वत्र गमनमनुगम इत्यनेन अनुशब्दोऽत्र व्याप्तिद्योतक इति दर्श्यते । यत्रेति अभिधेये इत्यनेन अर्थस्य दृष्टान्तत्वमाह। पदं तु तद्वाचकत्वाद् उपचरितो दृष्टान्तः। इदं च 'दृष्टान्तेन प्रदर्श्यते' इत्यनेन पूर्वमेव [टिपृ० १३३ पं० २०] आवेदितम् । यत् प्रयत्न तद्धीति हिशब्दो वीप्सार्थः । एवं हि हेतोः सपक्ष एव सत्त्वमुक्तं भवति यदि यद् यत् प्रयत्नानन्तरीयकं तत् तदनित्यमिति दर्यते । नान्यथा। एवं सर्वोपसंहारेण व्याप्तिं दर्शयित्वा स्पष्टीकरणार्थमेकदेशे उदाहरति-यथा घट इति । नित्यमप्रयत्नानन्तयरीकमिति नित्यशब्देनानित्यत्वाभावो लक्ष्यते । एवं हि हेतोः साध्याभावे नास्तित्वमुकं भवति । न प्रकारान्तरेण [पृ० २१३ B]"-विशाला०।८ विशेषावश्यकभाष्यकोट्टार्यवृत्ति. पृ. १५४ B| न्यायवार्तिक-तात्पर्य. टीका. १११३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org