________________
न्यायागमानुसारिणीवृत्त्यालङ्कृतस्य नयचक्रस्य टिप्पणेषु
[प्रथमः बडि फ्यिर्' र गि' रब्' तु ब्येद् प रिग्स्' पडि स्गो ल' सोग्स्' प नम्स्' लस्' ऽदिर् ग्चिग्' तु बैतुस्' ते । छद' म कुन्' लस्' बतुस्' पबचेम्' पर ब्यहो ॥ ग्शन् ग्यि' छद्म' द्गग' पर ब्य' बडि फ्यिर्' दङ् रङ् गि छद्मडि योन् तन् बर्बोद्' पर ब्य' बडि फ्यिर् दङ्॥ गङ् गि' फ्यिर् गशल' ब्य' तॊगस्' पनि छद्म ल' रग्' लस्' ५' यिन्' पस्' ऽदिर् यङ् लोग पर् तॊगस् प' मङ् बस्' नो ॥
प्रेमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने ।
प्रमाण सिद्ध्यै स्वमतात् समुच्चयः करिष्यते विप्रसृतादिहैकतः ॥१॥ अत्र च भगवतो हेतुफलसम्पत्त्या प्रमाणभूतत्वेन स्तोत्राभिधानं प्रकरणादौ प्रसादजननार्थम् । तत्र हेतुराशयप्रयोग
__ सं.
१ "ब्तुस्' नस्' शेस्' प ल सोग्स' पस्ते ।.....'छद्' म नम्स्' क्यि' कुन् लस्' ब्तुस्' प य दग्' पर बस्दुस्' पर ब्यो॥"-VT. पृ० ११ । २ प्र० वा. म. परिशिष्टे उद्धृतो व्याख्यातश्चायं श्लोकः, पृ०५१८-५२१ । ३"अत्र भगवतो हेतुफलसम्पत्त्या प्रमाणभूतत्वेन स्तोत्राभिधानं शास्त्रादौ शास्त्रार्थत्वात् । भगवानेव हि प्रमाणभूतोऽस्मिन् प्रसाध्यते। तत्र हेतुराशयप्रयोगसम्पत् सांव्यवहारिकप्रमाणापेक्षया। आशयो जगद्धितैषिता। प्रयोगो जगच्छासनाच्छास्तृत्वम्। फलं स्वपरार्थसम्पत् । स्वार्थसम्पत् सुगतत्वेन त्रिविधमर्थमुपादाय, प्रशस्तत्वं (स्तार्थ ? ) सुरूपवत्, अपुनरावृत्त्यर्थ सुनष्टज्वरवत्, निःशेषार्थ सुपूर्णघटवत् । परार्थसम्पत् जगत्तारणात् तायित्वम् । सन्तानार्थ चापरिनिर्वाणधर्मत्वात् । एवम्भूतं भगवन्तं प्रणम्य प्रमाणसिद्धिर्विधीयते । प्रमाणाधीनो हि प्रमेयाधिगमः । भगवानेव च प्रमाणम् । [ पृ० १]....... नन्वाचार्येण शासनमुपायत्वेन दुःखप्रशमस्य निर्दिष्टम् । तथा चोक्तम्-'प्रयोगो जगच्छासनाच्छास्तृत्वम् ।[पृ० ११५].."हेतुरुक्तमिदं द्वयम्'तत्र हेतुराशयप्रयोगसम्पत् । आशयो जगद्धितैषिता, प्रयोगो जगच्छासनाच्छास्तृत्वम् ।..' किं तत् सुगतत्वम् ?... तस्य हेतोः प्रहाणं त्रिगुणं प्रशस्तत्वात् अपुनरावृत्तेः निःशेषप्रहाणं(णात् ?) चेति [पृ० ११६] ।"-प्र०वार्तिकालं० । “अत्रेति श्लोके, भगवत इति 'भग'शब्दोऽयमैश्वयादिषु वर्तते यथोक्तम्-'ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । [ये शेस दङ = 1 ज्ञानस्याथ च वीर्यस्य षण्णां भग इतीरणा ॥ १॥ इति । तस्य स्तोत्राभिधानम्...... स्तोत्रेणाभिधानं स्तोत्रवचनेन गुणवत्त्वप्रकाशनमित्यर्थः । केन गुणेन तथा प्रकाशनमित्याह-प्रमाणभूतत्वेनेति । स च गुणः केन हेतुनेत्याह-हेतुफलसम्पत्त्येति [पृ० ४५] ...."तच्च किमर्थमित्याह-प्रकरणादौ प्रसादजननार्थमिति [पृ. ४ B] "तत्र हेतुराशयप्रयोगसम्पदिति । आशयं दर्शयतिआशयो जगद्धितैषिता इति । 'प्रयोगो जगच्छासनात् इत्यादि [पृ० ५B] | "जगच्छासनाच्छास्तृत्वमिति [ पृ. ६४] । .."तस्य फलं स्वपरार्थसम्पत् ।.."स्वार्थसम्पत् सुगतत्वेन इत्यादि । 'सु'शब्दोऽयमत्र प्रभूतत्वाद्यर्थप्रकाशको वेद्यः । यदाहत्रिविधमर्थमुपादाय इत्यादि [पृ० ७A] 1.."अर्थत्रयं चेदमित्यादि । तत्र बाह्या वीतरागाः......[पृ० ७B] |......... ..."परार्थसम्पत् तारणार्थेन' इत्यनेन 'ताय'शब्दार्थमाह । तारणं स्वदृष्टमार्गोपदर्शनम् । स एवार्थः । सोऽत्रास्तीति तेनार्थेन भगवतः तायित्वम् [पृ० ८A]........ .......... भगवान् बाह्य-शैक्षा-ऽशैक्षेभ्योऽधिकः [ पृ० ९B] |...... स्वप्रकरणेभ्य इतीदं 'स्वमतात्' इत्यस्य विवरणम् । 'मुख'शब्देनैवापि पूर्वोक्त 'विप्रसृत शब्दार्थो द्योतित एव प्रतीयते इति न व्याख्यातः । 'मुखं द्वारं दिङ्मात्रप्रदर्शनं संक्षेपः ।..... बहुध्वपि मतसामान्यात् श्लोके 'स्वमतात्' इत्येकवचनम् । वृत्तौ विशेषविवक्षायां 'स्वप्रकरणेभ्यः' इति बहुवचनम् [ पृ० १०४] । उच्चित्येत्यादि, पूर्वकृतमन्यच्च किञ्चिदपूर्वं बुद्धौ स्थितमपि समादाय प्रमाणानां समुच्चयः सम्यक् संग्रहः करिष्यते । अत्र च प्रमाण-प्रमेय-तदाभासादयः ......"प्रमाण'शब्देनाभिधीयन्ते । परप्रमाणप्रतिषेधायेत्यादिना 'प्रमाणसिद्धि'शब्दार्थमाह ।......स्वप्रमाणमेव गुणः अर्थाणिभिर्गुण्यते इति कृत्वा अर्थप्रापकत्वाच्च ।..'यस्मादित्यादिना प्रमाणस्य पुरुषार्थोपयोगित्वं दर्शयति । 'प्रमेयं चात्र हेयमुपादेयं च । यस्मात् तदधिगमः प्रमाणाधीनः तस्मात् प्रमाणसिद्ध्यै प्रयत्नः सफल इत्याशयः । अत्र केचिदाहः-प्रमाणानि स्वत एव सिद्धानीति । तन्मतानुयायिनोऽपरे श्लोकं पठन्ति-'प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥' [न्यायावतारे श्लोकोऽयं दृश्यते ॥२॥] इति । तस्मात् तन्निराकरणायाह-अत्र च [पृ० ११.] विप्रतिपत्तिबहुधा इति ।...यस्मात् प्रमाणे विप्रतिपत्तयो बहुधा तस्मात् तासां निराकरणाय शास्त्रमिति [पृ० ११B] ।"-विशाला०। ४ Psvi-P. अनुसारेणास्माभिः 'च'शब्दोऽत्र लिखित्तः, किन्तु विशालामलवत्यामव्याख्यातत्वाद नर्थकोऽपि स्यादिति भाति। ५'तुलना-"भगवति प्रसादजनने श्रोतृजनानुग्रहार्थं च स्तुतिपूर्वकमाचार्यों नमस्कारश्लोकमाह ।"-प्र०वा०म० पृ० १। “शास्तृपूजाविधानं तु भगवति सर्वश्रेयोधिगतिहेतोः प्रसादस्य उत्पादनार्थम्।"-तत्त्वसं०पं० पृ. ७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org