________________
* अहम्
॥ श्री ऋषभदेवाय नमः ॥
भोटपरिशिष्टम् । आचार्यश्रीमलवादिक्षमाश्रमणपूज्यपादैर्नयचक्रे वृत्तिकृद्भिः सिंहमूरिवादिगणिक्षमाश्रमणैश्च नयचक्रवृत्ती बौद्धदर्शननिरूपणावसरे बौद्धाचार्यदिङ्गागमतं बहषु स्थानेषु निर्दिष्टं चर्चितं परीक्षितं च । श्रीजिनभद्रगणिक्षमाश्रमणादिभिरपि विशेषावश्यकभाष्यवृत्यादिषु दिङ्गागमतमुल्लिखितम् । अतो दिङ्गागमतस्य परिज्ञानं बहु आवश्यकमिति विभाव्य पिपठिपूणामुपकाराय भोटपरिशिष्टमिदमस्माभिरारभ्यते । दिङ्गागेन प्रमाणसमुच्चय-न्यायमुख-हेतुमुख-आलम्बनपरीक्षा-वृत्तित्रैकाल्यपरीक्षा-न्यायपरीक्षा-सामान्यपरीक्षा-हस्तवालप्रकरण-वृत्ति-द्वादशशतिका-न्यायप्रवेशक-हेतुचक्रह(ड)मरु-कारणो- 5 पादानप्रज्ञप्तिप्रभृतयो बहवो ग्रन्था विरचिताः; किन्तु तेषु न्यायप्रवेशकं विना सर्वेऽपि संस्कृतभाषायां नष्टा इति प्रतिभाति, सम्प्रति क्वचिदपि तेषामनुपलब्धेः । तथापि केषाञ्चिद ग्रन्थानां परःशतेभ्यो वर्षेभ्यः पूर्व विहिता भोटभाषानुवादाः चीनभाषानुवादाश्च सम्प्रति उपलभ्यन्ते । एतेषु च सर्वेषु प्रमाणसमुच्चयो मुख्यो ग्रन्थः, स च कारिकात्मकः । अत्र दिङ्गागेन वृत्तिरपि विरचितास्ति । अयं च षट्सु परिच्छेदेषु विभक्तः । तत्र प्रथमे परिच्छेदे 'प्रत्यक्षमनुमानं च प्रमाणे [१२] इत्यभिधाय तदनन्तरं प्रत्यक्षलक्षणविचारः, द्वितीये स्वार्थानुमानविचारः, तृतीये परार्थानुमानविचारः, चतुर्थे दृष्टान्तविचारः, 10 पञ्चमेऽन्यापोहविचारः, षष्ठे जातिविचारः । प्रमाणसमुच्चयस्य तद्वत्तेश्च वसुधररक्षितविरचितौ कनकवर्मविरचितौ च भोटभाषानुवादौ सम्प्रति उपलभ्यते । सवृत्तिकस्य प्रमाणसमुच्चयस्योपरि ईश्वरसेन-जिनेन्द्रबुद्धिप्रभृतिभिर्बहुभिष्टीका विरचिताः, तासु जिनेन्द्रबुद्धिविरचिताया 'विशालामलवती'टीकाया "भोटभाषानुवाद एवं सम्प्रति उपलभ्यते।
१'भोट'शब्देन तिब्बत[ Tibet देशीयभाषा विवक्षिताऽत्र, तिब्बतदेशे तथा व्यवहारात्। २ दृश्यतां पृ० ३०६ पं० २२-२३, टिपृ० ३१ टि. १।३ तत्त्वसंग्रहपञ्जिका. पृ० ३१२ पं० २१, पृ० ३३९ पं० १५। ४ सवृत्तिकाया अस्या भोटभाषानुवादो 'बस्तन्-ऽग्युर'संग्रहे 'मदो वर्गे 'चे ९५]पुटे विद्यते । N. ed. पृ० १८० A-१८२ । P. ed. पृ० १७७A-१७९ । D. ed. पृ० ८६-८७B | The Adyar Library Series. No. 32. Adyar, Madras.-इत्यत्र संस्कृतानुवादेन सह प्रकाशितेयम्। ५ बस्तन्-ऽग्युर मदो चे=९५] | N. ed. पृ० १८२-१८३।। P.ed. पृ. १७९०-१८०B | D.ed. पृ० ८७B-८८B | 0.ed. पृ. ८७A-८८B । तत्रालोकवृत्ती [Kashmir Series XXIX. ९/११, पृ० १८ ] उल्लिखितेयम् । भोटभाषानुवादे तु 'त्रिकालपरीक्षा' इति अभिधानम् । ६ दिनागेन प्रमाणसमुच्चयस्य षष्ठपरिच्छेदे उल्लिखितेयम् । ७ नयचक्रवृत्तौ उल्लिखितेयम् । ८ एतद्विषयेऽधिकमग्रे वक्ष्यते । ९ दृश्यतां पृ० ५४८ पं० २४ । तत्त्वार्थसूत्रसिद्धसेनीयवृत्ति. ५।२४ । १० Gaekwad's Oriental Series. No. XXXVIII. Baroda इत्यत्र संस्कृतभाषायां प्रकाशितः। १२ बस्तन्ऽग्युर् मदो चे [=९५] इत्यत्र अस्या भोटभाषानुवादो विद्यते । N. ed. पृ० १९३०-१९४A I P. ed. पृ० १८९४-१९०५ । D. ed. पृ. ९३६-अनुसारेणास्य संस्कृते 'हेतुचक्रहमा(समा ?)र्थ' इति नाम ।'हेतुचक्रनिर्णयः' इत्यपि अस्य नाम भोटभाषानुवादानुसारेण प्रतीयते। १२ चीनभाषानुवादानुसारेण इदं नाम । संस्कृतेऽस्य किं नाम आसीदिति न सुष्टु ज्ञायते । अस्य चीनभाषानुवाद एवोपलभ्यते । तदनुसारेण Prof. Hidenori Kitagawa [ Nagoya University, Nagoya, Japan ] इत्येभिः सम्प्रति English भाषानुवादोऽपि विहितोऽस्ति । १३ 0. ed.-D. ed. मध्ये तु अस्य 'सुधनरक्षित' इति नामोपलभ्यते इति ध्येयम् । १४ अनुवादा एते 'बस्तन्-ऽग्युर'संग्रहे 'मदो'वर्गे चे [१५] पुटे संगृहीताः। १५ ईश्वरसेनमतस्य धर्मकीर्तिना बहुत्र निराकृतत्वात् धर्मकीर्तेः प्रागयं सजात इति प्रतीयते। १६ "धर्मकीर्तेरन्येषां च मतेभ्यः किञ्चित् संगृह्य” इति 'विशालामलवती'टीकाप्रारम्भे जिनेन्द्रबुद्धिना अभिहितत्वाद् जिनेन्द्रबुद्धिः धर्मकीर्तेः पश्चादेव जातः । १७ बस्तन्ऽग्युर'संग्रहे 'मृदो विभागे N. ed.-P.ed. मध्ये रे[ =११५ पुटेऽयं वर्तते, ०. ed.-D. ed. मध्ये तु ये [ D११४ ] पुटे विद्यते इति ध्येयम् । नवसहस्रश्लोकपरिमितेयं टीका । C. ed. पृ० १-३३६ । D.ed. पृ० १-३१४ । P. ed. पृ० १-३५५ । N. ed. पृ० १-३६०। १८ केनचिद् भोटदेशीयविदुषा भोटभाषायां रचिता एका प्रमाणसमुच्चयटीका A complete catalogue of the Tibetan Buddhist canons [ Published by Tohoku University, Sendai, Japan ] इत्येतदनुसारेण D.ed. मध्ये 5437 ग्रन्थाङ्के विद्यते इति ध्येयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org