________________
10
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य टिप्पणानि । [ पृ० ३७५ पं० १६
पृ० ३६७ पं० ४. पुरुषात्मना तृणदाहवद्वा । 'पुरुषात्मना सहैकीभूतस्य उदयोपशमक्षयोपशमक्षयाः .. तृणदाहवद्वा' इत्यपि मूलं स्यादत्र ।
पृ० ३६७ पं० ११. विपरिणाम्यं । अत्र प्रतिस्थः 'विपरिणम्यं' इति पाठः शुद्धः ।
5
पृ० ३६८ पं० १–२,१०. तत्र तत्प्रदर्शित । प्रत्यनुसारी 'तत्र प्रदर्शित इति पाठोऽत्र युक्तो भाति । पृ० ३६८ पं० ४. उदयोपशमक्षयोपशमक्षयान् सोदाहरणान् । दृश्यतां पृ० ३६८ टि० १, पृ० ३३८ टि० १ । सापेक्षाणामुदयोपशमक्षयोपशमानामुदाहरणानि तु शास्त्रान्तरेषु मृग्याणि ।
15
९४
पृ० ३७१ पं० ४, ५. ज्ञानादि न भवत्यज्ञानादिर्वा इति । ( ज्ञानादिर्न भवत्यज्ञानादिव इति ? ज्ञानादि न भवत्यज्ञानादि वा इति ? ) ।
पृ० ३७१ पं० २५. ज्ञानाज्ञानात्मा । अत्र भा०प्रतिस्थः ' ज्ञानात्मा' इति पाठोऽपि संगच्छेतेति भाति ।
पृ० ३७२ पं० ३. तत्त्व एव चेतना । अत्र ' तत्त्वमेव चेतना' इति पठनीयम् ।
पृ० ३७२ पं० १९–२२. निर्वृत्त्युपकरण
१०, पृ० ४७६ टि० २ ।
पृ० ३७३ पं० ४,२४. द्रव्येणैव द्रव्यं क्रियते । दृश्यतां पृ० ३५७ पं० १, टिपृ० ३५६ पं० ७ ।
पृ० ३७३ पं० २,१८. द्रव्यमपि । तुलना पृ० ३३४ पं० १ ।
पृ० ३७३ पं० ११. एक्केको य...। दृश्यतां पृ० ५५० टि० १ ।
•
उपयोगो । दृश्यतां पृ० १८३ पं० १८–२१, पृ० ४७४ टि०
पृ० ३७३ पं० १२-१३. द्रव्यस्थितनयप्रकृतयः । दृश्यतां टिपृ० ५२ पं० १३, तत्र च ' दव्वट्ठियनयपगडी' इति सन्मति[१।४]गाथाया वृत्तौ अभयदेवसूरिकृतं व्याख्यान्तरमपि विलोकनीयम् ।
पृ० ३७४ पं० ११,१२. अवति रक्षति पाति | अत्र 'पाति स्थाने 'याति' इति सम्यग् भाति, 'अव रक्षण- गति- कान्ति-प्रीति-तृत्य-वगम-प्रवेश श्रवण-स्वाम्यर्थ- याचन-क्रिये-च्छा-दीय वाह्यालिङ्गनहिंसादहनभाववृद्धिषु ' [पा० धा० 20 ६०० ] इति धातुपाठात् । हैमधातुपाठेऽपि [ धा० ४८९ ] इमे एव एकोनविंशतिरथी 'अव’धातोरुक्ता इति ध्येयम् । पृ० ३७४ पं० २०. नोकर्मा । दृश्यतां ३६५ पं० १४ ।
पृ० ३७४ पं० २१. वान्वित । अत्र 'चान्वित" इति रम्यं भाति ।
...
पृ० ३७४ पं० २. जे एकणामे । “जे एगं णामे से बहुं णामे जे बहुं णामे से एगं णामे ।" - औचाराङ्गसू० । पृ० ३७५ पं० २. इति । अत्र 'इति चतुर्थोऽरः प्रथमश्च मार्गः ।' इत्यपि मूलं स्यात् ।
25
पृ० ३७५ पं० ७. घटादि तावत्तदनित्यत्वम् । अत्र भा०प्रतौ 'घटादितावतदनित्यत्वम्' इति पाठः । ( घटादिभाववदनित्यत्वम् ? ) ।
पृ० ३७५ पं० १५. मार्गो नेमिरित्यर्थः । अत्र 'मार्ग' शब्दो 'नेमि' वाचकः; त्रिनेमि चेदं द्वादशारं नयचक्रम् । अतश्चतुर्षु चतुर्षु अरेषु एको मार्गो नेमिः परिसमाप्यत इति ज्ञेयम् । तुलना - "यस्मिन् समये तथागतः त्रिपरिवर्त द्वादशारं धर्मचक्रं परिवर्तयति । ” इति बौद्धग्रन्थे दिव्यावदाने पृ० २०५ । “आर्यसत्यानां प्रथमपरिवर्तो दर्शनमार्गः । 30 भार्यसत्यानां द्वितीयपरिवर्तो भावनामार्गः । आर्यसत्यानां तृतीयपरिवर्ती शैक्षमार्गः ।" इति महाव्युत्पत्तौ पृ० ६४ । पृ० ३७५ पं० १६. अर्धमेकपुस्तकं । अत्र य०प्रतौ 'अर्धमेकमेकपुस्तकं...' इति पाठः, भा०प्रतौ तु 'अर्धमेकं एक पुस्तकं..." इति पाठः । एतदनुसारेणात्र 'अर्धमेवमेकपुस्तकं... इत्यपि पाठः स्यात् ।
Jain Education International
१ " उपशमः कर्मणोऽनुदयावस्था भस्मपटलावच्छन्नाग्निवत् । क्षयोपशमाभ्यां निर्वृत्तो मिश्रः दरविध्या [ताव]च्छन्नज्वलनवत् ।” इति सिद्धसेनगणिर चितायां तत्त्वार्थसूत्रवृत्तौ २|१| २ " जे एगमित्यादि । यो हि प्रवर्धमानशुभाध्यवसायाधिरूढकण्डकः एकमनन्तानुबन्धिनं क्रोधं नामयति क्षपयति स बहून् मानादीन् नामयति क्षपयति, अप्रत्याख्यानादीन् वा खभेदान् नामयति । मोहनीयं चैकं यो नामयति स शेषा अपि प्रकृतीर्नामयति । यो वा बहून् स्थितिविशेषान् नामयति सोऽनन्तानुबन्धनमेकं नामयति मोहनीयं वा । यो बहुनामः स एव परमार्थत एकनाम इति क्षपकोऽभिधीयते उपशामको वा " इति आचाराङ्गसूत्रस्य शीलाङ्काचार्यकृतायां वृत्तौ १।३।४ ।
For Private & Personal Use Only
www.jainelibrary.org