________________
१४
नयचक्रस्य
जिनानन्दनामानो जैनसूरयो भृगुकच्छनगरे बुद्धानन्दाभिधेन वादिना पराजितत्वाद् भृगुकच्छं विहाय सुराष्ट्रविषये वलभीपुरं गताः । तत्र जिनानन्दसूरीणां दुर्लभदेवी नाम भगिनी, तस्याश्च अजितयशाः, यक्षः, मल्ल इति त्रयः पुत्राः । सा तत्र त्रिभिरपि पुत्रैः सार्धं सूरीणां समीपे प्रव्रज्यां स्वीचकार । सूरीणां समीपेऽधीयानास्ते त्रयोऽपि बन्धवः सर्वशास्त्रार्थेषु कोविदाधिपा अभूवन् । तेषु मल्लो बालोऽपि विशेषेण महाप्राज्ञस्तीक्ष्णबुद्धिश्चाभूत् । तेन श्रुतदेवतामाराध्य वरं लब्ध्वा
' विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥ इति पूर्वश्रुतसम्बद्धां प्राचीननयचक्रान्तर्गतां संक्षिप्तामप्यशेषविस्तरपरमार्थप्रकाशिकां गाथां व्याख्यातुं द्वादशारमयं संक्षिप्तं नव्यं नयचक्रं प्रणीतम् । तदनन्तरं जिनानन्दसूरिभि: अजितयशा यक्षो मल्ल इति त्रयोऽपि शिष्याः सूरिपदे प्रतिष्ठापिताः । तदनन्तरं भृगुकच्छं गत्वा बालोऽप्यप्रतिमबुद्धिल्लो बुद्धानन्देन समं षड् दिनानि राजसभायां सर्वजनसमक्षं वादं विधाय नयचक्रवलेन बहुविधविकल्पप्रतिविकल्पाकुलाविच्छिन्नवाग्वैभवेन बुद्धानन्दं वादे पराजितवान् । ततो राज्ञा जिनानन्दसूरिप्रमुखः सङ्घो वलभीपुर आनातो महाविभूत्या च भृगुकच्छे प्रवेशितः । एवं वादेऽतिपटीयस्त्वाद् विजेतृत्वाच्च मल्लो 'मल्लवादि' नाम्नैव सर्वत्र प्रसिद्धिं जगाम । अत एव चाचार्य श्री मल्लवादिक्षमाश्रमणानामष्टसु जिनप्रवचनप्रभावकेषु वादिप्रभावकतया विशेषतः प्रसिद्धिः ।
Jain Education International
आचार्य श्रीमल्लवादिक्षमाश्रमणानां सत्तासमय:
"श्रीवीर मुक्तितः शतचतुष्टये चतुरशीति [ ४८४ ] संयुक्ते । वर्षाणां समजायत श्रीमानाचार्य खपुटगुरुः ॥ ७९ ॥
निययगुरुणऽवमाणं संघस्स पराभवं च नाउणं । मलमुणिंदो भरुयच्छपट्टणे झत्ति संपत्तो ॥ २९ ॥ कयता रिसपइण्णेण तेण सह भिक्खुणा समारद्धो । निवपज्जतो वाओ बहुविउससहाए पच्चक्खं ॥ ३० ॥ एस गुरुवि मए विणिज्जिओ विजियवाइविंदो वि । ता एयम्मि दुहा वि हु बाले किर मज्झ का गणना ॥ ३१॥
भगवाओ समप्पिओ भिख्खुणा मुणिंदस्स । सो वि हु सुमरिय सासन देविमुवन्नसि उमारद्धो ॥ ३२ ॥ सियवायसार जिणमयगम हे उभंग पवरजुत्तीहिं । काउणमुवन्नासं धरिओ छद्दिवसपजते ॥ ३३ ॥ भणियं च तेणमणुवइ दूसेयब्वं तए इमं गोसे । तो बुद्धदासभिक्खू नियठाणगओ तमिस्साए ॥ ३४ ॥ दीवयमुज्जालेउण करयले कलिय सेडियं सुब्भं । जमुवन्नसियं मल्लेण तं लिहेउं समारद्धो ॥ ३५ ॥ परिभावणाए मढमज्झिमाए भित्तीए तान से किंपि । सम्मं संभरइ तओ घसक्किओ हिययमज्झमि ॥ ३६ ॥ निव पजंत सहाए भणियव्वं किह मए पभायंमि । एवभयज्झवसाणेण सो गओ झत्ति पंचत्तं ॥ ३७ ॥ मिलियम्मि विउस्सग्गे बीयदिणे जा न एइ सो भिक्खू । हक्कारणाय ता तस्स राइणा पेसिया पुरिसा ॥ ३८ ॥ ते तत्थ गया भिक्खू नियंति भित्तीसमीवमुवविद्धं । उत्तणियनयणजुयं सेडियपाणिं विगयपाणं ॥ ३९ ॥
तू तर्हि रणो साहियमह भणइ नरवइ एवं । जह कहियमिमेहिं तहा चिंततो सो भयेण मओ ॥ ४० ॥ तो तेण हारियं तयणु राइणा मलवाइणो दिनं । जयपत्तं संजाया संघस्स पभावणा महइ ॥ ४१ ॥ निस्सारिउमारद्धं रण्णा भिक्खूण दंसणं सयलं । तो मलवाइणा सो निवारिओ जायकरुणेण ॥ ४२ ॥ सूरी वि जिणाणंदो निवेण निसेससंघसंजुत्तो । पच्चणीओ गंतूण सम्मुहं गुरुविभूइए ॥ ४३ ॥ विहिया पभूयकालं पभावणा मलवाइसूरीहिं । निन्नासिया य सव्वे वि तेण परवाइणो बहुसो ॥ ४४ ॥ सवणोयरसुहसद्देसणाए पडिबोहिउण भवियजणं । सिरिमल्लवाइसूरी मरिउण गओ अमरलोए ॥ ४५ ॥ महाख्यानं समाप्तम् ॥ आख्यानमणिकोशे प्रवचनोन्नत्यधिकारोऽष्टादशः समाप्तः । ” – पृ० १७२ ॥
-
For Private & Personal Use Only
www.jainelibrary.org