________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे तत्प्रणीतमहार्थयथार्थनयचक्राख्यशास्त्रविवरणमिदमनुव्याख्यास्यामः । स भगवानैदयुगीनोपपत्तिरुचिभव्यजनानुग्रहार्थमहत्प्रवचनानुसारि नयचक्रशास्त्रमारिप्सुमङ्गलार्थ शासनस्तवं वक्ष्यमाणवस्तूपसंहारार्थमाचं वृत्तमाह-व्याप्येकस्थमित्यादि । व्याप्नोतीति व्याप्तुं शीलमस्येति वा व्यापि, औणादिकस्ताच्छीलिको वा । किं व्याप्यम् ? अविशेषितत्वात् सर्वं परमाण्वादि वस्तु । तत् कथं जैनेन शासनेन 5 व्याप्यत इति चेत्, द्रव्यार्थादेशात् । तद्यथा-एकपरमाणुवर्ण-गन्ध-रस-स्पर्शपरिणामैः सप्रभेदैः स्वाभाविकैः पुरस्कृतैः पश्चात्कृतैश्च व्यणुकादिभिः सांयोगिकैर्महास्कन्धपर्यन्तै(संसिकैः प्रायोगिकैश्च कार्मणशरीरादिभिरभिसम्बध्यते । यथोक्तम्
एकदवियम्मि जे अत्थपजया वयणपजया वा वि ।
तीताणागेतभूता तावइअंतं हवइ दवं ॥ [सन्मति० १॥३१] 10 तथा गति-स्थित्यवगाह-वर्तनालक्षणैर्धर्माधर्माकाशकालैरापेक्षिकैः जीवानामपि स्वाभाविकपारभाविकैरुपयोग-शरीरादिभिः । अतस्तस्य तस्य वस्तुनो द्रव्यार्थादिष्टस्य तेषु तेषु 'परिणामेषु अव्यावृत्तस्वरूपत्वात् तेषां च तथा तदभेदात् सर्वेषां द्रव्य-पर्यायाणां परस्परतश्च सदविशेषात् तादात्म्यम् । अतस्तत् तद् व्याप्नोतीति 'व्यापि' इत्युच्यते ।
टिप्पणम् सिद्धचक्रं नमस्कृत्य हृदये प्रणिधाय च ।
नयचक्रमहाशास्त्रे टिप्पणं क्रियते मया ॥ १ भगवन्तः श्रीमल्लवादिक्षमाश्रमणपूज्यपादाः 'विधि-नियमभङ्गवृत्ती'त्यादिवश्यमाणैककारिकामात्रं मूलभूतमतिसङ्क्षिप्तार्थ गाथासूत्रं व्याचिख्यासवः सर्वमिदं भाष्यात्मकं विवरणं विरचयामासुः । अस्यापि च विवरणस्यातिगभीरस्य बोधागाधस्य महासमुद्रभूतस्य दुरवगाहत्वात् तदुत्तितीर्पणामुपकारार्थ श्रीसिंहसूरिगणिवादिक्षमाश्रमणपूज्या नौयानभूतां न्यायागमानुसारिणी टीका प्रणीतवन्तः। एवं च श्रीमल्लवादिक्षमाश्रमणविरचितभाष्यात्मकविवरणस्य अनुव्याख्यानरूपत्वादस्य टीकाग्रन्थस्य 'अनुव्याख्यास्यामः' इत्यभिहितं टीकाकृद्भिः । अनु पश्चादर्थे, भगवान् मल्लवादी व्याख्यास्यति, अयं च टीकाकृदनुव्याख्यास्यति इति भावः ॥ २ “अत्र लोपोऽभ्यासस्य” [पा० ॥४।५८ ] इति सूत्रेण 'आरिप्सुः' इति सिद्धम् ॥ ३ 'अनेकान्त एव परमार्थः, तत्प्रतिपादकत्वाच्च जैनमेव शासनं सत्यम्' इति वक्ष्यमाणं वस्तु ॥ ४ व्याप्येहस्थितमि य० । व्याप्येतस्थमि° भा०॥ ५ व्याप्नोति व्याप्तुं शील° य० । व्यामोतीति व्याप्तिः शील° भा०॥ ६ व्याप्तुं शीलमस्येति ताच्छील्ये द्योत्ये "सुप्यजातौ णिनिस्ताच्छील्ये” [पा० ३।२।७८ ] इति सूत्रेण 'व्यापि' इति सिध्यति । अयोये तु ताच्छील्ये औणादिकं रूपम् ॥ ७°श्रसिकैः प्र०॥ ८ °दविअम्मि भा० ॥ ९°गयभूता तावइयं होइ तं दवं भा० ॥ १० परिमाणेषु भा० ली. विना ॥ - ११ द्रव्यापर्या॰ डे. २० । द्रव्यानापर्या पा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org