________________
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् १७८ तेन दीव्यति संसृष्टं तरतीकण चरत्यपि । पण्याच्छिल्पानियोगाच्च क्रीतादेरायुधादपि ८॥१३॥ नावस्तार्ये विषाद् वध्ये तुलया संमितेऽपि च । तत्र साधौ यः ९। ईयस्तु हिते १०। यदुगवादितः ११॥१४॥
उपमाने वतिः १२। तत्वौ भावे १३। यण् च प्रकीर्तितः १४। तदस्यास्तीति मन्त्वन्त्वीन् १५। संख्यायाः पूरणे डमौ १६॥१५॥ द्वेस्तीय: १७। त्रेस्तृ च १८। अन्तस्थो डे !ः १९। कतिपयात् कते: २०।
विंशत्यादेस्तमट् २१। नित्यं शतादेः २२॥ षष्ट्याद्यतत्परात् २३॥१६॥ विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परं तु ये । अव्यादेः सर्वनाम्नस्ते बहोश्चैव पराः स्मृताः २४॥१७॥
तत्रेदमिः २५। रथोरेतेत् २६। तेषु त्वेतदकारताम् २७।
पञ्चम्यास्तस् २८। त्र सप्तम्याः २९। इदमो हः ३० किमः ३१। अत् क्व च ३२॥१८॥ तहोः कुः ३३। काले किंसर्वयदेकान्येभ्य एव दा ३४। इदमो मुधुनादानीम् ३५। दादानीमौ तदः स्मृतौ ३६॥१९॥ सद्यआद्या निपात्यन्ते ३७ प्रकारवचने तु था ३८। इदंकिम्भ्यां थमुः कार्यः ३९। आख्याताच्च तमादयः ४०॥२०॥ समासान्तगतानां वा राजादीनामदन्तता ४१। डानुबन्धेऽन्त्यस्वरादेर्लोप: ४२॥ तेर्विंशतेरपि ४३॥२१॥
इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च ४४। नस्तु क्वचित् ४५।
उवर्णस्त्वोत्वमापाद्यः ४६। एयेऽकद्रूवास्तु लुप्यते ४७॥२२॥ कार्याववावादेशावोकारौकारयोरपि ४८॥ वृद्धिरादौ सणे ४९। न य्वोः पदाद्योवृद्धिरागमः ५०॥२३॥
इति तद्धितसूत्राणि समाप्तानि ।
अथ तृतीयमाख्यातप्रकरणम् प्रथमः पादः तुल्यार्थं तुल्यसामर्थ्य मर्मज्ञं व्यवसायिनम् ।
अर्धराज्यहरं भृत्यं यो न हन्यात् स हन्यते ॥] अथ परस्मैपदानि १। नव पराण्यात्मने २॥ त्रीणि त्रीणि प्रथममध्यमोत्तमाः ३। युगपद्वचने परः पुरुषाणाम् ४। नाम्नि प्रयुज्यमानेऽपि प्रथमः ५। युष्मदि मध्यमः ६। अस्मद्युत्तमः ७। अदाब्दाधौ दा ८। क्रियाभावो धातुः ९। काले १०। सम्प्रति वर्तमाना ११। स्मेनातीते १२। परोक्षा १३। भूतकरणवत्यश्च १४। भविष्यति भविष्यन्त्याशीःश्वस्तन्यः १५/ तासां स्वसंज्ञाभिः कालविशेषः १६। प्रयोगतश्च १७/ पञ्चम्यनुमतौ १८। समर्थनाशिषोश्च १९। विध्यादिषु सप्तमी च २०। क्रियासमभिहारे सर्वकालेषु मध्यमैकवचनं पञ्चम्याः २१॥ मायोगेऽद्यतनी २२। मास्मयोगे ह्यस्तनी च २३। वर्तमाना-ति तस् अन्ति । सि थस् थ । मि वस् मस् । ते आते अन्ते । से आथे ध्वे ए वहे महे २४। सप्तमी-यात् याताम् युस् । यास् यातम् यात। याम् याव याम । ईत ईयाताम् ईरन् । ईथास् ईयाथाम् ईध्वम् । ईय ईवहि ईमहि २५। पञ्चमी-तु ताम् अन्तु। हि तम् त । आनि आव आम । ताम् आताम् अन्ताम् । स्व आथाम् ध्वम् । ऐ आवहै आमहै २६। ह्यस्तनी - दि ताम् अन् । सि तम् त । अम् व म । त आताम् अन्त । थास् आथाम् ध्वम् । इ वहि महि २७। एवमेवाद्यतनी २८। परोक्षा - अट् अतुस् उस् । थल् अथुस् अ । अट् व म । ए आते इरे। से आथे ध्वे । ए वहे महे २९। श्वस्तनी - ता तारौ तारस् । तासि तास्थस् तास्थ। तास्मि तास्वस् तास्मस्। ता तारौ तारस् । तासे तासाथे ताध्वे । ताहे तास्वहे तास्महे । ३०। आशी: - यात् यास्ताम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org