SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ १७५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् ___ अथ द्वितीयं नामचतुष्कप्रकरणम् । प्रथमः पादः [लक्ष्मी[:] परोपकाराय विवेकाय सरस्वती । सन्ततिः स्वर्गसौख्याय भवेद्धन्यस्य कस्यचित् ॥] धातुविभक्तिवर्जमर्थवल्लिङ्गम् १। तस्मात् परा विभक्तयः । सि औ जस् । अम् औ शस् । टा भ्यां भिस् । ङे भ्यां भ्यस् । ङसि भ्यां भ्यस् । ङस् ओस् आम् । ङि ओस् सुप् । पञ्चादौ घुट ३। जस्शसौ नपुंसके ४। आमन्त्रिते सिः संबुद्धिः ५। आगम उदनुबन्धः स्वरादन्त्यात् परः ६। तृतीयादौ तु परादिः ७/ इदुदग्निः ८। ईदूत् स्त्र्याख्यौ नदी ९। आ श्रद्धा १०। अन्त्यात् पूर्व उपधा ११। व्यञ्जनान्नोऽनुषङ्गः १२। धुड् व्यञ्जनमनन्तस्थानुनासिकम् १३। अकारो दीर्घ घोषवति १४। जसि १५। शसि सस्य च नः १६। अकारे लोपम् १७। भिसैस् वा १८। धुटि बहुत्वे त्वे १९। ओसि च २०। ङसिरात् २१। ङस् स्यः २२। इन टा २३। उ यः २४। स्मैः सर्वनाम्नः २५। ङसिः स्मात् २६। ङि: स्मिन् २७। विभाष्येते पूर्वादेः २८। सुरामि सर्वतः २९। जस् सर्व इ: ३०। अल्पादेर्वा ३१। द्वन्द्वस्थाच्च ३२। नान्यत् सार्वनामिकम् ३३। तृतीयासमासे च ३४। बहुव्रीहौ ३५। दिशां वा ३६। श्रद्धायाः सिर्लोपम् ३७। टौसोरे ३८। संबुद्धौ च ३९। ह्रस्वोऽम्बार्थानाम् ४०। औरिम् ४१॥ ङवन्ति यै-यास्-यास्-याम् ४२॥ सर्वनाम्नस्तु ससवो ह्रस्वपूर्वाश्च ४३। द्वितीयातृतीयाभ्यां वा ४४। नद्या ऐ-आस्-आस्-आम् ४५। संबुद्धौ ह्रस्वः ४६। अम्शसोरादिर्लोपम् ४७। ईकारान्तात् सिः ४८। व्यञ्जनाच्च ४९। अग्नेरमोऽकारः ५०। औकारः पूर्वम् ५१। शसोऽकारः सश्च नोऽस्त्रियाम् ५२। टा ना ५३। अदोऽमुश्च ५४ । इरेदुरोज्जसि ५५। संबुद्धौ च ५६। उ ५७। ङसिङसोरलोपश्च ५८। गोश्च ५९। डिरौ सपूर्वः ६०। सखिपत्योर्डिः ६१। ङसिङसोरुमः ६२। ऋदन्तात् सपूर्वः ६३। आ सौ सिलोपश्च ६४ । अग्निवच्छसि ६५ । अर् डौ ६६। घुटि च ६७ । धातोस्तृशब्दस्याऽऽर् ६८। स्वस्रादीनां च ६९। आ च न संबुद्धौ ७०। ह्रस्वनदीश्रद्धाभ्यः सिर्लोपम् ७१। आमि च नुः ७२। त्रेस्त्रयश्च ७३। चतुरः ७४। संख्यायाः ष्णान्तायाः ७५। कतेश्च जस्शसोर्लुक् ७६। नियो ङिराम् ७७। इति नाम्नि सूत्रतः प्रथमः पादः समाप्तः । द्वितीयः पादः [यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पण: किं करिष्यति ॥] न सखिष्टादावग्निः १। पतिरसमासे २। स्त्री नदीवत् ३। स्त्र्याख्यावियुवौ वामि ४। ह्रस्वश्च ङवति ५। नपुंसकात् स्यमोर्लोपो न च तदुक्तम् ६। अकारादसम्बुद्धौ मुश्च ७। अन्यादेस्तु तुः ८। औरीम् ९। जस्शसो: शिः १०। धुट्स्वराद् घुटि नुः ११। नामिनः स्वरे १२। अस्थिदधिसक्थ्यक्ष्णामन्नन्तष्टादौ १३। भाषितपुंस्कं पुंवद् वा १४। दीर्घमामि सनौ १५। नान्तस्य चोपधायाः १६। घुटि चासम्बुद्धौ १७। सान्तमहतो!पधायाः १८। अपश्च १९। अन्त्वसन्तस्य चाधातोः सौ २०। इन्हन्पूषार्यम्णां शौ च २१॥ उशनस्पुरुदंशोऽनेहसां सावनन्तः २२। सख्युश्च २३। घुटि त्वै २४। दिव उद् व्यञ्जने २५। औ सौ २६। वाम्याः २७। युजेरसमासे नुर्बुटि २८। अभ्यस्तादन्तिरनकारः २९। वा नपुंसके ३०। तुदभादिभ्य ईकारे ३१॥ हने.र्घिरुपधालोपे ३२॥ गोरौ घुटि ३३। अम्शसोराः ३४। पन्थिमन्थ्यभुक्षीणां सौ ३५। अनन्तो घुटि ३६। अघुट्स्वरे लोपम् ३७। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy